SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रमुख प्राकृतभाषा समूहाः तथैव आसु पारस्परिका प्रभेदाश्च यथा उपर्युक्त मार्गेण सम्यक् परिष्कृतम् मतम् अस्माभिः सुष्ठु प्रवर्ततेऽत्र भारतीयासु सर्वासु मध्यकालीनासु आर्यभाषासु भाषोपभाषासु अस्याः प्राकृत भाषायाः प्रभावः एवंभूतः, येनेयं भाषा सर्वाः आत्मनः आत्मतुल्याः आक्रोड़यत्याकलयति च। यथा खीष्टपूर्वात् पञ्चम शतकात् दशमशतकं यावत् पञ्चदशशतक विशालकालावधौ बहु-विधमाकारमाकृतिं परिगृह्य सर्वेषु देशेषु प्रचरिता प्रसरिता परिव्याप्ताचासीत्। अपरं तु यस्याः प्राकृत भाषायाः पूर्वावस्था “पाली" स्वरूपेण परिदृश्यते अपरावस्था प्राकृत स्वरूपेति। __ अस्याः प्राकृतभाषायाः प्रचलित व्यवहारेण कदाचित् संकुचितः कदाचिदपिसुविस्तृतार्थः शतक त्रयात् पञ्चशतकं यावत् भृशं संदृश्यते। इत्यत्राप्येवं रूपेण परिगृह्यते यदस्माभिः यथैव स्वकीयां भाषां व्यवहरामः स्थूलतः तदानीन्तनायाः प्राकृतभाषायाः व्यवहारः तेनैवासीदिति सारार्थः। इत्यालोचनायां भूमौ कतिचिदपि भाषाः स्युः यासु वैयाकरणाः सममतावलम्बिनः न भवन्ति। सर्वेषु वैयाकरणेषु वरिष्ठेषु वैयाकरणेन वररुचिना, महाराष्ट्री, शौरसेनी, मागधी, पैशाचिकी रूपेण केवलं चतसृणां प्राकृतिक भाषाणां मान्यताम् संगृहयते। उपर्युक्ताभ्यः चतुः प्राकृतिक भाषाभ्यः सातिरिक्ताः, आर्षप्राकृत,
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy