________________
15
प्राकृतस्य प्राचीनाचार्याः (६) हरिश्चन्द्रः
“प्राकृतसर्वस्व” ग्रन्थानुसारेण (पृ. ११०) संस्कृत तथा शौरसेनी प्राकृतस्य अन्योन्यमिश्रण "टाक्की" भाषा रूपेण परिचिता । “टाक्की” विभाषायाः एकः भेदः । किन्तु हरिश्चन्द्रस्य मतेन "टाक्की" तु न प्राकृतमपभ्रंशमेव । अस्य अपभ्रंशस्य प्रयोगः विद्वद्भिः नाटके प्रयुज्यते"हरिश्चन्द्रस्त्विमां भाषामपभ्रंश इतीच्छति
अपभ्रंशो हि विद्वद्भिर्नाटकादौ प्रयुज्यते ॥
अनेनमतेन इदमेव प्रतितीः भवति टाक्की भाषायां प्रथमा विभक्तौ “उ” प्रत्ययस्य संयोगः भवति विकल्पेन (उत् स्यात् पदान्ते वहुलम्)। वैशिष्ट्यमस्य अत्रापभ्रंश भाषायामुपलभ्यते ।
-