________________
प्राकृतस्यप्रशस्तिः प्राकृत भाषायाः मधुरिमा सर्वविदितम्। संयुक्त वर्णानाम् अभावः नास्ति, परन्तु शब्दस्य मोदकतया तथा वर्ण विषयस्य स्वाभाविकेन रसिकाः प्राकृतभाषां प्रति आकृष्टाः। अतः प्राकृतस्य प्रशस्तिरनेकैः विद्वद्भिः अनेनप्रकारेणकृताहाल-"गाथा-सप्तशती"
"अमियं पाइयकव्वं पढिउँ सोउं च जे न जाणंति।
कामस्स तत्ततत्तिं कुणंति ते कहँ ण लज्जंति॥ छाया
“अमृतं प्राकृतकाव्यं पठितुं श्रोतुं च ये न जानन्ति।
कामस्य तत्वचिन्तां कुर्वन्ति ते कथं न लज्जन्ते॥ वररुचिः – “प्राकृतमञ्जरी"
प्रसीदस्तु च वाचस्ता यासां माधुर्यमुच्छितम्। प्राकृतच्छद्मना चक्रे कात्यायनमहाकविः।। अहो तत् प्राकृतं हारि प्रिया वक्त्रेन्दुसुन्दरम्। सूक्तयो यत्र राजन्ते सुधानिष्यन्दनिर्भराः॥