________________
प्राकृत व्याकरणम् व्यापक परिवर्तनं संदृश्यते। संस्कृतस्य संतुलनमवलम्व्य प्राकृत भाषायामन्यभाषणां प्रभावानपि प्रचुर रूपेणोपलभ्यतेति सत्यम्।
इमाः सर्वा उक्तयः इदं सत्यं स्थूलतः सन्मार्गेणोपस्थापयति यत् संस्कृतमेव प्राकृतभाषायाः मूलभूता जन्मदात्री।
प्रायशः अनेन कारणेन सर्वे प्राचीनाः अर्वाचीनाश्च प्राच्याः प्रतीच्याः अपि प्राकृत व्याकरणं संस्कृत व्याकरण रचनायां मूलभूतं विचार्य प्राकृतस्य विश्लेषणं कृतवन्तः। अनेन पथा संस्कृतस्य प्रकृतित्वमतीव सुस्पष्टमेवाकलनीयम्। तथापि वैदिक लौकिक संस्कृतमेव प्राकृतस्य मूलभूता प्रकृत्येति न विविच्यते 'यतः-प्राकृतभाषायामेतादृशं तत्त्वमुपलभ्यते यस्य विकशितं स्वरूपं शुद्ध संस्कृतात् भवतीति नोपलभ्यते। इदमप्यस्माभिः परिलक्षते यत् तदानींतनेकाले वैदिक लौकिक संस्कृतमपि प्रचलितासु लोकभाषासु सातिरिक्तं भिन्नतममासीत्। __ वैदिकसंस्कृतस्य तथा लौकिक संस्कृतस्य आदिभूमौ प्राकृतस्य आदिमतासीत् सत्यमेव। तथापीदं स्वीकरणीयमेव इमाः सर्वाः भाषा वैदिक लौकिक संस्कृतादारभ्य अन्याश्चापि वर्तमानाः आसन्। इत्यत्रापि परितापस्य विषयः अयमेव अन्यासां लोकभाषाणाम् वहुल काव्यनाटकोपन्यास रचनाभावात् आसामस्तित्वं न सम्यक् रूपेण परिलक्षते।
प्राकृतभाषायाः अनेकानेकरूपाणि सन्ति सत्यमेव तथाप्येदं तथ्यं पुष्टतां परिगृह्णाति यत् अस्याः प्राकृतभाषायाः कयापि एकतमया भाषया विकाशः नाभवनपि अनेकानेक भाषाभिः संभवेदिति विचारणीयमेव।
यद्यपि प्राकृतभाषायाः प्रकृतिस्वरूपां इमां भाषां प्रतिरूपेण संस्कृतमभिमन्येत, तदपि संस्कृतस्य प्रकृति स्वरूपं प्राकृतं भवतीति अधिकाधिके विद्वद्भिः अवश्यमेव स्वीकरणीयम्।