________________
प्राकृत व्याकरणम् केचन अनुमन्यन्ते। यतः साम्प्रतिकः भाषा वैज्ञानिकाः सिद्धान्तं समुत्पातयन्ति काचित् महतीभाषा कस्मिन् अपि देशे समय सूत्रं परिगृहय लोक प्रचलिता भाषा भवेदिति अनिवार्य विषयः। अस्याम् आलोचनायां का कस्याः जननी कस्याः भाषायाः का भाषा सञ्जायते तदपि विश्लेषणस्य विषयः। अयमपि प्रश्नः स्वयं उत्तिष्ठति प्रकृति सिद्धः प्राकृत शब्दः अथवा प्रकृति स्वरूपा इयं संस्कृत भाषा कदा सञ्जयतेः।
तदैव का कस्याः जननी इत्यपि सम्यक् सुविचारणीया। स्थूलतः विद्वद्भिः अनुमीयते प्राचीनतमा इयं प्राकृत भाषा संस्कृतभाषायाः इति निष्कर्षः। इयं प्राकृतभाषा लोक साधारणी भवति यतः जनता जनार्दनस्य कथितभाषा रूपेण अस्य स्थितित्वं कालिदासादिभिः महाकविभिः तेषां श्रव्य काव्येषु परिदर्शयन्ति। यथा भाषया सर्वे सर्वेषां भाव प्रकाशनं कुर्वन्ति, लिखन्ति च, तामपि भाषाम् लोकभाषेति कथ्यते। अपरेऽस्मिन् पक्षे भावभाषायाः विभागः परिदृश्यते, यथा शासकानां शासनकार्य प्रचलति इमां शिष्टजन भाषा इत्यपि कथ्यते। अनया आलोचनया अयं निष्कर्षः प्रतिपन्तः एका लोकभाषा अपरा शिष्टभाषा वा राजभाषा भवति। अयमपि विचार्यः विषयः यत् इयमपि शिष्ट भाषा प्रचलित समये कदाचित् वहूनां जनानां कथित भाषा महत्त्वम् उपलभ्यते। यतः शिष्टानां समादरः देशस्योपरि सर्वत्र सम्यक् भावेन सर्वदैव अधिकारं विस्तारयति। अस्मात् कारणादियं यथार्थता समुत्पद्यते शिष्टजनानां विदूषां समादर फलेन अस्माकमियं संस्कृतभाषा समधिक समादृता भवेदिति सम्भावना। संस्कृत शब्दस्य अर्थः शुद्धः। यस्मात् शुद्ध स्वभावादियमस्माकं संस्कृतभाषा कदासीत् समादृता। तदैव आदिकविना महाकदिना वाल्मीकिना अपि प्राकृतं भाषा विकल्पं समाश्रित्य तस्याः अपि प्रशंसा सम्यक् दीयते स्म। यथा- “यदि वाचं प्रदास्यामि द्विजातिः इति संस्कृताम्", इत्यनेन वचनेन प्राकृत प्रयोगस्य महनता सुस्पष्टा। एभिः प्राचीनतमैः महाकवीनां वचनैः स्पष्टतया उपस्थाप्यते इयं संस्कृतभाषा द्विजातीनां प्रिय परिजनासीत्।
सर्वे शिष्टाः विद्वांसः प्राकृत भाषामपि व्यवहियन्ते स्म। समाजेऽस्मिन् शिष्ट जनेतरः लोकानां कथितां भाषां म्लेच्छ भाषां इति विविधेषु शास्त्रेषु निगद्यते। इमं सम्वन्धमवलम्व्य कतिचित् उदाहरणानि