________________
प्राकृत शब्दस्यार्थः प्रश्नः समुत्पद्यते तस्य उत्तरमार्गेण उच्यते। साम्प्रतिकाः वैज्ञानिकाः मानवाः एवं भूताः प्राचीनतमा भाषा मानयितुं नाग्रे गच्छन्ति। अर्धमागधी भाषायाः सञ्जायते प्राकृत भाषा इति एषां न सम्मतम्। प्राकृतभाषा तथा संस्कृतभाषायाः तुलनात्मक अध्ययनेन इदं सुस्पष्टं जायते यत्, संस्कृतस्य अत्याधुनिकतम स्वरूपं प्राकृत भाषायाः प्राचीनतमात् स्वरूपात् प्रायशः समधिकं पुरातनं भवति, येन इयं सम्भावना सम्भाव्यते यत् प्राकृत भाषायाः शुद्धं विकशितं रूपं हि संस्कृतम्। तस्मात् कथ्यते प्राकृतभाषां संस्कृतस्य जन्मदात्री एव। अनेनमार्गेण विचारशीलाः कतिपयाः पाश्चात्य भाषाविदः तथा प्राच्याः वैदिकाः विद्वांसः कतिपयैः प्राकृतैः शब्दैः इदं निष्कर्षं समुपस्थापयन्ति यत् वेद भाषायाः उपरि प्राकृतस्य प्रभावः सुस्पष्टः। अस्मात् कारणात् एषां विदूषां अभिज्ञता, अनभिज्ञता अपि प्रतीयेते। अस्मिन् विषये कश्चित् सन्देहः अपि न वर्तते, वेद भाषायाः प्रचलन समये अनेकानेकाः लौकिक भाषा अवश्यमेव सम्भवेयुः। अनयोः वेद प्राकृतयोः सम्बन्धः सुप्रतिण्ठितः। तथापि अस्मिन् प्रबन्धे अयम् अपि अवधारणीयः विषयः यत् वैदिक भाषायाः उपरि प्राकृतस्य प्रभावः सम्यक् संद्यश्यते।
__ अनेन कारणेन तात्कालीक भाषा समान्य तत्त्वं सर्वैः विद्वद्भिः स्वीक्रियते अस्मिन् प्रश्ने ते अपि सन्दिग्धाः स्युः। कथं प्राकृत भाषायाः साहाय्येन वैदिकभाषायाः समुन्नतिं स्यात् अथवा वैदिक संस्कृतं परिगृह्य लौकिक संस्कृतस्य साहाय्येन प्राकृतस्य समुन्नतिः स्यात् इति विचारणा अनेकेषां सन्देहं समुत्पादयन्ति। इदम् एव सत्यं प्राकृत भाषा विज्ञानात् ज्ञायते यथा तात्कालीके समये उत्तरभारतीयाः समस्ताः आर्यभाषाः प्राकृतभाषया सह समुल्लसिताः अभवन्। इदं तत्त्वं लौकिक संस्कृत भाषा विश्लेषणात् अध्ययनात् च सम्यक् परिदृश्यते ज्ञायते च।
अनेन कारणेन अस्य विचारस्य आधार उपरि च स्वीक्रियते सम्यक यत् संस्कृतस्य उपरि प्राकृतस्य प्रभावः सुस्पष्टः अथवा प्राकृतस्य उपरि संस्कृतस्य प्रभावः समुल्लसितः इति विचारणा सम्यक् प्रवर्तते। यद्यपि प्रकृतिस्वरूपा प्राकृतभाषा संस्कृतभाषायाः जननी कदाचित् कैः विद्वद्भिः स्वीक्रियते कुत्रापि संस्कृतभाषा प्राकृत भाषायाः जन्मदात्री