________________
प्राकृत व्याकरणम् प्रथम पक्ष विद्वांसः प्रकृतिः इति संस्कृत शब्दात् प्राकृतस्य शब्दस्य जन्मः अतः अयं तत् भवः इति कथ्यते। अनेन कारणेन प्राकृतः शब्दः. तत् जातः' इति कथ्यते। पक्ष सम्पर्कनाय कतिपयाः विद्वांसः संस्कृत शब्दात् हेमचन्द्र “प्राकृत व्याकरणात्", त्रिविक्रम विरचितात् "प्राकृतव्याकरण वृत्तेः"२, मार्कण्डेय कविन्द्र विरचितात् “प्राकृत सर्वस्व"३ ग्रन्थात्, धनिकस्य “दशरूपकावलोक"४ ग्रन्थात्, सिंहदेवगणिनः "वाग्भटालङ्कार" टिका ग्रन्थात्', वासुदेवस्य “कर्पूर मञ्जरी" सट्टकस्य सञ्जीवनी टीकायाः६ उद्धृतिः समुस्थाप्यते।
अन्य पक्षियाः विद्वांसः येषु केचित् जैनाः, केचन पाश्चात्याः अपि प्रकृति शब्दात् एवं भूतम् अर्थ प्रतिपादयन्ति। यथा व्याकरणादीनां शब्द शास्त्राणां संस्कारं विना इमे प्राकृताः शब्दाः लोक मुखेभ्यः सहजरूपेण प्राकृतिकेन उपायेन समुत्च्चार्यन्ते। अनेन कारणेन इने प्रतिपादयन्ति प्रकृति रूपायां भाषायां व्यवहृताः शब्दाः प्राकृताः। इयं प्राकृत भाषा यदा व्याकरणादिभिः संस्कारभूतैः शास्त्रैः सुष्ठु संस्कृताः सुविकशिताः अभवन्, तान् शब्दान् संस्कृतम् इति उचूः ते विद्वांसः। __ अतः संस्कृतभाषायाः इयं प्राकृत भाषा प्राचीनतमा इति विचार्य कतिपय विद्वांसः प्राकृतशब्दस्य एवंभूतं निर्वचनं निरुपितवन्तः। यथा प्राक् + कृतम् < प्राकृतम्। अस्य पक्षस्य सुनिष्पादितमिदं पक्षम् रुद्रटस्य जैन टिकाकारः नमि साधूः इति नामधेयः विद्वान्, अधिक स्पष्टतया बोधयति स्म। रुद्रटेन विरचितस्य काव्यालंकारस्य प्राचीना टीका अनेकानेक पक्ष प्रश्नान् समाधयति। अस्याः टीकायाः निर्णीतं सूक्ष्मातिसूक्ष्म सारं निर्णयानेन सर्वे प्राच्याः पाश्चात्याः विद्वांसः मानयन्ति वहुमन्यन्ते च। अतः एवंभूतः विचारः कियत्दूरं विस्तीर्य्य इदानीमपि द्वितीय मतविचारं समारभे। निष्पत्तिरूपेण इदमपि समुच्यते नेमि साधोः उच्चारणात् स्पष्टभावेन तस्य महोदयस्य भाषा विशेषान् प्रति धार्मिकतां महतां विश्लेषणार्थातिशयं परिगृह्य अधुनांतनानाम् प्रचलितानाम् प्राकृतानाम् संस्कृतानाम् शब्दानाम् व्यवहारिकः अर्थः सुनिरुपितः यत् यावदर्धमागधी वाणी इति उक्तेः सर्वस्य संसारस्य सर्वेषां जनानाम् सहजरूपेण स्वाभाविकेन भावेन सर्वासां भाषाणाम् मूल भाषेयं इति