________________
प्राकृत शब्दस्यार्थः
सर्वे प्राकृताः शब्दाः स्वकीयान् व्यापक अर्थान् गृहीत्वा संस्कृतं विना अन्यास सर्वासु प्रान्तीय - भारतीय - प्राचीन - भाषासु सम्यक भावेन प्रयुज्यन्ते, मध्यकालीनासु ऐतिहासिकाषु भाषासु तथैव प्रयुज्यन्ते अपि एतत् परिदृश्यते। एषु प्राकृतिकेषु शब्देषु प्रथम शतक्याः प्रारभ्य पञ्चम शताब्दी यावत् लोकप्रचलितासु भाषासु अपितु लोक साहित्येषु सम्यक् भावेन समुचितान् अर्थान् प्रकाश्यन्ते। अनन्तरं इमे सर्वे प्राकृताः शब्दाः लोक प्रचलित स्वरूपेण प्ररुढ़ाः विद्वद्भिः उपस्थाप्यन्ते। अयं प्रश्नः स्वतः सम्भवति स्वाभाविकेन रूपेण यथा मध्यकालीनेषु ऐतिहासिकेषु अब्देषु कथं वा इमे प्राकृताः शब्दाः सर्वासु भारतीयेषु लोक भाषासु सम्मिलन्ति। द्वितीयः प्रश्नः अस्यापि प्राकृतिक शब्दस्य कः मूलार्थः। एवं भूतान् प्रश्नान् अनेके विद्वांसः उत्थापयन्ति, अस्य प्रश्नस्य उत्तरं सर्वे विद्वांसः यथा प्राचीनाः जीनाः, वौद्धाः, अर्वाचीनाः अपि वैयाकरणाः सम्यक् स्वरेण "प्रकृतिः” इति एकवाक्येन प्रयच्छन्ति। अपं शब्दः प्राकृतः संस्कृतस्य प्रकृति शब्दात् निष्पन्नः इत्थं प्रतिपाद्यते। येषां प्राकृतशब्दानाम् अर्थाः लौकिकैः ग्रामनगरपुरजनैः सरलभावेन सुबोध्याः - सुवक्तव्याः अपितु इयं प्राकृतिकी भाषा या अपि प्रकृति स्वरूपा कथ्यते इयं पुनः किंभूता। अयं अपि अपरः प्रश्नः उत्थाप्यते विद्वद्भिः। अतः सर्वेषु विद्वत्सु अपि द्वौ विभागौ स्पष्टतया अजायताम्।