________________
222
प्राकृतमञ्जरी
प्राकृत व्याकरणम्
हत्वं दिवसशब्दे वा सकारस्य विधीयते ।
दिवसो दिअहो वाच्यः पक्षे स्याद् दिअसो पुनः ॥ ४६ ॥
मनोरमा
दिवसशब्दे स कारस्य हकारो वा भवति । दिअहो । दिअसो ॥
दिवसः ॥
अम्बिका
"
"
'अयुक्तस्यानादौ ” (प्रा. २.१) इत्यतः “ अयुक्तस्य” तथा “संज्ञा (यां) वा” (प्रा. २.४५ ) इत्यतः 'वा' इति पदद्वयमनुवर्त्तते ।
सूत्रार्थः
संस्कृत 'दिवस' शब्दस्य 'स्' कारस्य स्थाने प्राकृते विकल्पेन "ह" कारः भवति ।
यथा
दिवसः
दिअहो, दिअसो
अस्य प्रक्रियां “कगचजतदपयवां प्रायो लोपः " (प्रा. २.२) इति सूत्रस्य “व” लोपप्रसङ्गे द्रष्टव्यम्।
अन्य पक्षे 'दिअसो' इति, न तु 'स्' कारस्य 'ह' कारः । ४७. स्नुषायां ण्हः
सुबोधिनी
मण्डूकप्लुतिन्यायेन षस्येत्यनुवर्त्तते, नान्यत् । स्नुषाशब्दे षस्य ण्ह इति आदिश्यते। सोण्हा |
वृत्तै प्राकृतसूत्राणां सदानन्दस्यनिर्मितौ।
परिच्छेदः सुबोधिन्यां द्वितीयोऽगादयं विधिः ॥ २ ॥
सञ्जीवनी
मण्डूकप्लुतिन्यायेन षस्येत्यनुवर्तते, नान्यत् । स्नुषाशब्दे षस्य