________________
अयुक्तविधिः
223
"हादेशः स्यात्। सोण्हा । उत ओत् तुण्डरूपेषु इति ओत्त्वम् । अधो मनयामिति नलोपः ॥ ४३ ॥
प्राकृतमञ्जरी
स्नुषाशब्दे त्वयुक्तस्य षकारस्य विकल्पतः ।
हत्वमुक्तं स्नुषा सोण्हा भवेत् पक्षे न्हुसा मता ॥ युक्तादेशो हि युक्तस्येत्याहुः केचिदसाधु तत् । ह्र-त्र-ष्णेत्यादिसम्प्राप्ते पहत्वे युक्तस्य को विधिः । अयुक्तस्येत्यगत्यैतत् कथमन्ते स्खलेत् कविः ।
उत्तीर्य दुस्तरं सिन्धुं को नु पारे निमज्जति ॥४७॥
मनोरमा
स्नुषाशब्दे ष कारस्य ण्हकारो भवति । सोण्हा ।
अम्बिका
""
'अयुक्तस्यानादौ” (प्रा. २.१) इत्यतः 'अयुक्तस्य" तथा मण्डूकप्लुतिन्यायेन “शषोः सः” (प्रा. २.४३) इत्यतः ‘ष्’ कारस्य अनुवृत्तिर्भवति ।
सूत्रार्थः
""
संस्कृत “स्नुषा” शब्दस्य 'ष् ' कारस्य स्थाने प्राकृते “ण्ह” कारः भवति ।
यथा
स्नुषा > सोण्हा
" स्नुषा" इति स्थिते " अधो मनयाम्” (प्रा. ३.२) इत्यनेन सूत्रेण ‘न्’ कारस्य लोपे “सुषा" इति स्थिते " उत ओत् तुण्डरूपेषु” (प्रा. १.२०) इत्यनेन सूत्रेण "उ" कारस्य "ओ" कारे " सोषा" इति स्थिते "स्नुषायां ण्हः” (प्रा. २.४७) इत्यनेन सूत्रेण 'स्नुषा' इत्यस्य 'ष्’ कारस्य 'ण्ह' कारे " सोण्हा" इति रूपं सिद्धम् ।