SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ अयुक्तविधिः सूत्रेण 'श्' इत्यस्य 'ह' कारे, "दहमुख" इति प्राप्ते, "खघथधभां हः” (प्रा. २.२७) इत्यनेन सूत्रेण “ख्" इत्यस्य 'ह' कारे, "दहमुह " इति जाते, "अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य 'ओ' कारे "दहमुहो” इति रूपं सिद्धम् । 221 विकल्पपक्षे 'श्' इत्यस्य "शषोः सः” (प्रा. २.४३) इत्यनेन सूत्रेण 'स्' कारे " दसमुहो" इति रूपं सिद्धम् । दशबलः > दहबलो, दसबलो “दशबलः” इति स्थिते " संज्ञा (यां) वा" (प्रा. २.४५ ) इत्यनेन सूत्रेण 'श्' इत्यस्य 'ह' कारे, "दहबल" इति स्थिते, “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्ति एकवचने 'सु' इत्यस्य "ओत्वे", "दहबलो” इतिरूपं सिद्धम् । विकल्पपक्षे “शषोः सः” (प्रा. २.४३) इत्यनेन सूत्रेण 'श्' कारस्य 'स्' कारे, दसबलो रूपं सिद्धम् । दशरथः > दहरहो, दसरहो " दशरथः " इति स्थिते " संज्ञा (यां) वा (प्रा. २.४५ ) इत्यनेन सूत्रेण “श्” इत्यस्य "ह्” कारे, “खघथधभां हः” (प्रा. २.२७) इत्यनेन सूत्रेण 'थ्' कारस्य 'ह' कारे, “अत ओत् सोः " (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्यप्रथमाविभक्तिएकवचने 'सु' इत्यस्य 'ओ" कारे, “दहरहो” रूपं सिद्धम् । विकल्पपक्षे “शषोः सः " (प्रा. २.४३) इत्यनेन सूत्रेण “श्” कारस्य “स्” कारे "दसरहो" रूपं सिद्धम् । "6 ४६. दिवसे सस्य सुबोधिन दिवसे सस्य हः स्याद्वा । दिअहो दिअसो ॥ ४२ ॥ सञ्जीवनी ह इत्यनुवर्तते वेति च । दिवसे सकारादेशः स्याद्वा । दिअहो दिअसो ॥ ४२ ॥
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy