________________
220
प्राकृत व्याकरणम्
द्वादश > बारह
अस्य प्रक्रियां तु “संख्यायाञ्च" (प्रा. २.१४) सूत्रप्रसङ्गे द्रष्टव्यम् ।
४५. संज्ञा (यां) वा
सुबोधिनी
नाम्नि दशशब्दे शस्य हः स्याद्वा । दहमुहो दसमुहो दशमुखः॥ ४१ ॥ सञ्जीवनी
दशेत्यनुवर्तते । ह इति च। संज्ञायां नाम्नि दशन्शब्दे शस्य हत्वं वा स्यात् । दहमुहो दसमुहो । दहरहो दसरहो दशमुखदशरथयोः । खघथादिना खथयोर्हः । अत्र एकादशादयो नानुवर्तन्ते । तेषां संज्ञायामसंभवात्॥ ४१ ॥
प्राकृतमञ्जरी
संज्ञायां गम्यमानायां हत्वं वा स्याद् दशादिषु । दशास्यस्तु दहस्सो वा दसस्सो वा भवेदिह ॥ ४५ ॥
मनोरमा
संज्ञायां गम्यमानायां दशशब्देशस्य हत्वं वा भवति । दहमुहो, पक्षे दसमुहो। दहबलो, दसबलो । दहरहो, दसरहो ॥ दशमुखः। दशबलः। दशरथः ।
अम्बिका
"
" अयुक्तस्यानादौ ” (प्रा. २.१) इत्यतः " अयुक्तस्य " तथा "शषोः सः” (प्रा. २.४३) इत्यतः 'शः' इति पदद्वयमनुवर्त्तते ।
सूत्रार्थः
संस्कृत " दश" शब्देन योगेन " अन्य" संज्ञावाचकः शब्दसिद्धेर्प्रक्रियायां "दश” शब्दस्य “श्” कारस्य स्थाने प्राकृते विकल्पेन "ह" कारः भवति ।
दशमुखः > दहमुहो, दसमुहो
" दशमुखः" इति स्थिते "संज्ञा (यां) वा" (प्रा. २.४५ ) इत्यनेन