SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ अयुक्तविधिः 219 एव स्थितत्वेऽप्यनुदीर्य- माणोऽनुवर्तते, न षकारः । ब्रूमः - दशादिषु षकारस्य सम्भवात्। तर्हि एवं स्थिते षोडश अष्टादशशब्दयोर्षकारस्य हत्वं स्यात्, सत्यम्; किञ्च, मण्डूकप्लुतिन्यायेन अनादावित्यत्र सम्बध्यते । तेन षोडशशब्दे न भवति । अष्टादशशब्दे प्रतिपदोक्तत्वेन ष्टस्य ठ इति ठकारेण प्रवृत्ते षस्य हत्वाभावः ॥ ४० ॥ प्राकृतमञ्जरी दशादिषु स्मृतं हत्वं शस्येत्यर्थाद् विशिष्यते । शषयोः प्रकृतित्वेन दशशब्दो भवेद् दह ॥ अयं षड्भ्यो लुगिस्यत्र कृतलोपविधिर्भवेत् । अत्राष्टादशपर्यन्ता दशाद्याः स्युर्दहादयः ॥४४॥ मनोरमा दश इत्येवमादिषु शकारस्य हकारो भवति । दह । एआरह। बारह । तेरह । दश- एकादश-द्वादश- त्रयोदशाः । अम्बिका "अयुक्तस्यानादौ" (प्रा. २.१) इत्यतः “ अयुक्तस्य”, तथा “शषोः सः” (प्रा. २.४३) इत्यतः 'शः' इति पदद्वयमनुवर्त्तते । सूत्रार्थः संस्कृतस्य 'दश' आदिशब्देषु विद्यमानेषु 'श्' कारस्य स्थाने प्राकृते 'ह' कारः भवति । सूत्रे “ आदि" शब्दस्य तात्पर्यं तु एकादशाल् " अष्टादश" पर्यन्तं शब्दम् । यथा 'दशः' इति स्थिते 'श्' कारस्य 'ह' कारे दशः > दह " दशादिषु हः " (प्रा. २.४४ ) इत्यनेन सूत्रेण " दह" इति रूपं सिद्धम् । एकादश > एआरह अस्य प्रक्रियां तु “संख्यायाश्च" (प्रा. २.१४) सूत्रप्रसङ्गे द्रष्टव्यम् ।
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy