________________
218
'सु' इत्यस्य बिन्दुत्वे "कसाअं" रूपं सिद्धम् ।
४४. दशादिषु हः सुबोधिनी
प्राकृत व्याकरणम्
दशादिष्वष्टादशान्तेषु शस्य हः स्यात् । दह इत्यादि । उत्तरसूत्रात्सिंहावलोकितन्यायेन वेत्यनुवर्त्तते । तेन दशसु दिशासु इत्यादौ न हत्वम् । 'पाषाणेऽपि षकारस्य हत्वं निर्दिश्यते बुधैः' पाहाणो । अत्र शबोरेकसमासस्थयोर्मध्यात् शकार एव कथमनुवर्त्तते ? न च दशादिषु षकाराभावात्तदनुवृत्तिरिति युक्तं षोडशाष्टादशशब्दयोः षकारसत्त्वात्। यद्यप्येनं तथापि मण्डूकप्लुतिन्यायेनानादावित्यत्रापि संबुध्यते, तेन षोडशशब्दे न भवति । अष्टादशशब्देऽपि ठकारविधेर्बल
वत्त्वाद्धत्त्वाऽभावः ॥ ४० ॥
सञ्जीवनी
श इत्यनुवर्तते । दश आदिर्येषां ते दशादयः । तेषु दशादिषु अष्टादशपर्यन्तेषु शस्य हादेशः स्यात् । दह दश । एआरह एकादश । कगचादिना कलोपः । बारह । उपरि लोप इत्यादिना दलोपः । तेरह । 'लोपः साचो यकारस्य क्वचिन्नित्यः क्वचिन्न वा' इति साचो यस्य लोपः । सन्धावचामित्यादिना अकारविसर्गयोरेत्त्वम् । चउद्दह । कगचादिना सर्वत्र लवरामिति तरयोर्लोपः । शेषस्य द्वित्वम् । पण्णरह । न्मज्ञादिना ञ्चस्य णः । शेषादेशादिना द्वित्वम् । सोलह डस्य चेति लः । सत्तरह । उपरि लोप इत्यादिना पलोपः । शेषादेशादिना द्वित्वम् । अट्ठारह । ष्टस्य ठः । पूर्ववद् द्वित्वम् । सर्वत्र अनेन सस्य हः । 'ख्यायां चेति दस्य रः। अन्त्यस्य हल इति नलोपः । जश्शसोर्लोपः । 'जसि दीर्घः शसि त्वेत्त्वं ष्णान्तां संख्यां विना भवेत्' इति जश्शस्ङस्यांसु दीर्घः इति प्राप्तस्य दीर्घस्याभावः । 'संख्यावाची दशेत्यत्र व्याख्यानादवगम्यते ' । तेनेह न भवति । दसाओ दशाः । जशो वा इति जस ओत्त्वम् । अदशं वीरम्। अविद्यमाना दशा यस्य तं अदशम् । इह कस्मान्न भवति दसमी अवत्था दससु दिसासु ? उच्यते - उत्तरसूत्रात् सिंहावलोकितन्यायेन वेत्यनुवर्तनेन क्वापि न भवति । 'पाषाणेऽपि षकारस्य हत्वं निर्दिश्यते बुधैः' । पाहाणो । अस्य कथं समावेशः ? तस्य शषोर्मध्यात् शकार