________________
अयुक्तविधिः
" अत
इत्यनेन सूत्रेण ‘ब्’ इत्यस्य लोपे, “सद” इति जाते “शेषादेशर्योद्वित्वमनादौ” (प्रा. ३.५० ) इत्यनेन सूत्रेण 'द्' इत्यस्य द्वित्वे "सद्द" इति प्राप्ते, ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य 'ओत्वे', “सद्दो" रूपं सिद्धम् ।
शशकः > ससओ
217
'शशकः' इति स्थिते “शषोः सः” (प्रा. २.४३ ) इत्यनेन सूत्रेण आदि तथा मध्य 'श्' कारस्य 'स्' कारे, “ससक" इति जाते, “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'क्' कारस्य लोपे, “ससअ" इति प्राप्ते, “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य "ओत्वे", 'ससओ' रूपं सिद्धम् ।
""
निशा > णिसा
'निशा' इति स्थिते “नोणः सर्वत्र” (प्रा. २.४२) इत्यनेन सूत्रेण 'न्' कारस्य 'ण्' कारे, “णिशा" इति स्थिते “शषोः सः” (प्रा. २. ४३) इत्यनेन सूत्रेण अन्त्य 'श्' कारस्य 'स्' कारे 'णिसा' रूपं सिद्धम् । षण्ढः > संण्ढो
“ षण्ढः” इति स्थिते 'शषोः सः” (प्रा. २.४३) इत्यनेन सूत्रेण आदि 'ष्’ कारस्य ‘स्' कारे, “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य " ओत्वे" "संण्ढो" रूपं सिद्धम् ।
वृषभ: > वसहो
“वृषभः” शब्दस्य प्रक्रियां "ऋतोऽत्” (प्रा. १.२७) इति सूत्रप्रसङ्गे द्रष्टव्यम् ।
कषायम् > कसाअं
" कषायम्” इति स्थिते “शषोः सः” (प्रा. २.४३ ) इत्यनेन सूत्रेण 'ब्' कारस्य 'स्' कारे, " कसाय" इति स्थिते, “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'य्' इत्यस्य लोपे, “कसाअ” इति जाते, “सोर्बिन्दुनपुंसके (प्रा. ५.३० ) इत्यनेन सूत्रेण नपुंसके