________________
216
प्राकृत व्याकरणम्
यथा
कन्दरा > कन्दरा, कन्दआ ४३. शषोः सः सुबोधिनी
एतयोः सः स्यात्। सेसोः शेषः। अस्सोः अश्वः॥ ३९॥ सञ्जीवनी ____ अयुक्तस्येति निवृत्तम्।शषयोः सकारादेशः स्यात्। ससओ सोहिओ शशकशोभितयोः। अस्सो अस्समो अश्वाश्रमयोः। सर्वत्र लवरामिति वरयोर्लोपः। शेषादेशादिना सस्य द्वित्वम्। अदातो यथादिषु वा, इति अत्त्वम्। सेसो मेसो शेषमेषयोः॥ ३९।। प्राकृतमञ्जरी
शषयोर्विहितं सत्वं सर्वत्रापि शिवं सिवं।
पलाशञ्च पलासो स्यात् पष्ठी सट्ठी भूषा मूसा।।४३॥ मनोरमा
सर्वत्र शकारषकारयोस्सकारो भवति। शस्य सहो। णिसा। अंसो। षस्यसंठो। वसहो। कसा॥शब्दः। निशा। अंशः। षण्ढः। वृषभः। कषायम्॥ अम्बिका
"अयुक्तस्यानादौ" (प्रा. २.१) इत्यतः "अयुक्तस्य" तथा "नोणः सर्वत्र” (प्रा. २.४२) इत्यतः "सर्वत्रः" पदद्वयमनुवर्तते। सूत्रार्थः
संस्कृत शब्देषु सर्वत्र (आदि, मध्य तथा अन्त्य) विद्यमानेषु 'श्' तथा 'ए' कारयोः प्राकृते 'स्' कारः भवति। यथा
शब्दः > सदो 'शब्दः' इति स्थिते "शषोः सः” (प्रा. २.४३) इत्यनेन सूत्रेण 'श्' इत्यस्य 'स्' कारे, “सब्द" इति स्थिते, “सर्वत्र लवराम्” (प्रा. ३.३)