________________
215
अयुक्तविधिः मनोरमा
आदेरिति निवृत्तम्। सर्वत्र नकारस्य णकारो भवति। णई। कणअं। वअणं। माणसिणी॥ नदी॥ कनकम्॥ वचनम्। मनस्विनी॥ अम्बिका
“अयुक्तस्यानादौ" (प्रा. २.१) इत्यतः "अयुक्तस्य", ("आदेर्योजः" (प्रा. २.३१) इत्यतः “आदेः” इति पदस्य अनुवर्तनम् समाप्तम्) पदमनुवर्तते। सूत्रार्थः - संस्कृतशब्देषु सर्वत्र (आदि, मध्य तथा अन्त्य) विद्यमानेषु तथा असंयुक्तः "न्" ध्वनेः स्थाने प्राकृते “ण” कारः भवति। यथा
.. नदी > णई "नदी” इति स्थिते, “नोणः सर्वत्र' (प्रा. २.४२) इत्यनेन सूत्रेण आदि ‘न्' कारस्य 'ण' कारे, “णदी' इति जाते “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'द्' इत्यस्य लोपे “णई" रूपं सिद्धम्।
___ कनकम् > कणअं "कनकम्” इति स्थिते "नोणः सर्वत्र” (प्रा. २.४२) इत्यनेन सूत्रेण मध्य 'न्' कारस्य 'ण' कारे, “कणक” इति जाते, “कगचजतदपयवां प्रायो लोपः" (प्रा. २.२) इत्यनेन सूत्रेण 'क्' कारस्य लोपे, “कणअ" इति स्थिते, “सोर्बिन्दुर्नपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) “कणअं” रूपं सिद्धम्।
वचनम् > वअणं अस्य शब्दस्य प्रक्रियां “कगचजतदपयवां प्रायो लोपः" (प्रा. २.२) इति सूत्रस्य 'च' लोपप्रसङ्गे द्रष्टव्यम्। समन्वयः
अन्यध्यनिना सह युक्त 'न्' कारस्य म णत्वम्।