________________
214
प्राकृत व्याकरणम् सप्तपर्णः > छत्तवण्णो “सप्तपर्णः” इति स्थिते “षट्शावकसप्तपर्णानां छः” (प्रा. २.४१) इत्यनेन सूत्रेण ‘स्' इत्यस्य ‘छ्' कारे, “उपरि लोपः कगडतदपषसाम्" (प्रा. ३.१) इत्यनेन सूत्रेण संयुक्त ‘प्' इत्यस्य लोपे, “छतपर्ण” इति स्थिते, “शेषादेशयोर्वृित्वमनादौ” (प्रा. ३.५०) इत्यनेन सूत्रेण 'त्' कारस्य द्वित्वे, “छत्तपर्ण" इति जाते, “पावः” (प्रा. २.१५) इत्यनेन सूत्रेण 'प्' कारस्य 'व्' कारे, “छत्तवर्ण". इति प्राप्ते, “सर्वत्र लवराम्" (प्रा. ३. ३) इत्यनेम सूत्रेण '' इत्यस्य लोपे, “शेषादेशयोर्द्वित्वमनादौ” (प्र२ ५०) इत्यनेन सूत्रेण ‘ण्' इत्यस्य द्वित्वे, “छत्तघण्ण” इति जाते, “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्यप्रथमाविभक्तिएकवचने "सु" इत्यस्य ‘ओत्वे', “छत्तवण्णो' रूपं सिद्धम्। ४२. नोणः सर्वत्र सुबोधिनी
अयुक्तस्य नस्य णः स्यात्। घणत्थणी। अयुक्तस्येति किम्? अन्तरं। अत्राऽयुक्तत्वं स्वभिन्नहलन्तरेण सम्बोध्यं बोद्धव्यम्। तेन उण्णअपओहरेत्यादौ नकारेणैव युक्तस्य स्यादेव। अयुक्तस्येति अधिकारो निवृत्तः॥३८॥ सञ्जीवनी ___ अयुक्तस्येत्येव। न इत्यक्षरं षष्ठ्यन्तम्। अयुक्तस्य वर्णान्तरेणायुक्तस्य नकारस्य णकारादेशो भवति। घणत्थणी घनस्तनी। स्तस्य थः इति थः। तस्य द्वित्वे वर्गे युजः पूर्वः इति तः। णअणं वअणं। अयुक्तस्येति किम्? अन्तरा अन्तरा कन्दरा कन्दरा। बन्धुरा बन्धुरा। कथं तर्हि उण्णअं पण्णअं इत्यादौ णत्वम्। वर्णान्तरेण युक्तमिति विशेषयितव्यम। तेन यत्रान्येन वर्णेन सह नकारस्य योगः तत्रायुक्तस्येत्यनेन विशेषः। 'आदौ क्वापि नकारस्य णत्वभावोऽपि दृश्यते'। णूणं नूनम्॥३८॥ प्राकृतमञ्जरी
निवृत्तादिरयुक्तस्येत्यधिकारस्ततः परम्। सर्वत्र नस्य णत्वं स्यात् पानं पाणं नद णई॥४२॥