________________
213
अयुक्तविधिः प्राकृतमञ्जरी
षट्शब्दे शतशब्दे च सप्तपर्णपदेऽपि च।
स्याच्छत्वं छप्पओ छाओ छत्तिवणो मतः क्रमात्॥४१।। मनोरमा
एतेषामादेर्वर्णस्य छकारो भवति। छट्ठी। छम्मुहो। छावओ। छत्तवण्णो॥ षष्ठी। षण्मुखः। शावकः। सप्तपर्णः॥ अम्बिका
"अयुक्तस्यानादौ” (प्रा. २.१) इत्यतः “अयुक्तस्य", "आदेर्योजः" (प्रा. २.३१) इत्यतः “आदेः" पदद्वयमनुवर्तते। सूत्रार्थः
षष्, शावकः, सप्तपर्णः आदि संस्कृत शब्देषु आदि वर्ण ‘ष्', 'श्', तथा 'स्' कारेषु स्थानेषु प्राकृते 'छ्' कारः भवति। यथा
__ षष्ठी > छट्ठी “षष्ठी" इति स्थिते “षट्शावकसप्तपर्णानां छः” (प्रा. २.४१) इत्यनेन सूत्रेण 'ए' कारस्य 'छ्' कारे, “छष्ठी” इति जाते, "ष्टस्य ठः” (प्रा. ३.१०) इत्यनेन सूत्रेण 'ष्ठ इत्यस्यापि 'ठ्' कारे, “छठी" इति जाते, "शेषादेशयोर्द्वित्वमनादौ" (प्रा. ३.५०) इत्यनेन सूत्रेण 'ठ्' इत्यस्य द्वित्वे "छठ्ठी" इति प्राप्ते “वर्गेषु युजः पूर्वः” (प्रा. ३.५१) इत्यनेन सूत्रेण 'ठ्' इत्यस्य 'ट्' कारे “छट्ठी" इति रूपं सिद्धम्।
शावकः > छावओ "शावकः” इति स्थिते "षटशावकसप्तपर्णानां छः” (प्रा. २. ४१) इत्यनेन सूत्रेण 'श्' इत्यस्य 'छ' कारे, “छावक" इति जाते, "कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'क्' इत्यस्य लोपे, “छावअ" इति स्थिते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने "सु" इत्यस्य 'ओ' कारे, "छावओ" इति रूपं सिद्धम्।