________________
212
प्राकृत व्याकरणम् सूत्रस्यास्य प्राकृतमञ्जरी टीका नोपलभ्यते। मनोरमा
लाहलशब्दे आदेर्वर्णस्य णकारो भवति। णाहलो॥ अम्बिका
“अयुक्तस्यानादौ” (प्रा. २.१) इत्यतः “अयुक्तस्य" तथा "आदेर्यो जः'' (प्रा. २.३१) इत्यतः “आदेः" पदद्वयमनुवर्तते। सूत्रार्थः
“लाहल" इति संस्कृत शब्दस्य आदि वर्णः 'ल' कारस्य स्थाने प्राकृते 'ण' कारः भवति। यथा
लाहलः > णाहलो “लाहलः" इति स्थिते “लाहले णः” (प्रा. २.४०) इत्यनेन सूत्रेण 'ल' इत्यस्य 'ण' कारे, “णाहल" इति स्थिते, “अत ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्यप्रथमाविभक्तिएकवचने “सु" इत्यस्य "ओ"त्वे “णाहलो" रूपं सिद्धम्। ४१. षटशावकसप्तपर्णानां छः सुबोधिनी
एष्वादेः छः स्यात्। छट्ठी षष्ठी। छाओ छत्तवण्णो। आदेरिति नाऽनुवर्तते॥३७॥ सञ्जीवनी
एष्वादेर्वर्णस्य छ: स्यात्। छट्ठी षष्ठी। उपरि लोप इत्यादिना षलोपः। शेषस्य द्वित्वे वर्गे युजः पूर्वः इति टः। छप्पओ छम्मुहो षट्पदषण्मुखयोः। उपर्यपि च वक्तव्यो लोपो वर्णान्तरस्य च' इति टणयोर्लोपः। शेषादेशादिना द्वित्वम्। छाओ शावः। छत्तवण्णो सप्तपर्णः। उपरि लोपः इत्यादिना सर्वत्र लवरामिति परेफयोर्लोपः। शेषादेशादिना तणयोर्द्वित्वम्। पो वः इति वः।। ३७।।