________________
अयुक्तविधिः मनोरमा
मन्मथशब्दे आदेर्वर्णस्य व कारो भवति । वम्महो।
अम्बिका
211
((
'अयुक्तस्यानादौ” (प्रा. २.१) इत्यतः 'अयुक्तस्य', “आदेर्योजः” .(प्रा. २.३१) इत्यतः “आदेः " पदद्वयमनुवर्त्तते ।
सूत्रार्थः
संस्कृतशब्दस्य “मन्मथ " शब्दस्य आदि वर्ण “म्” कारस्य स्थाने प्राकृते “व्” कारः आदिश्यते ।
यथा
मन्मथः > वम्महो
“मन्मथ” इति स्थते “मन्मथे वः” (प्रा. २.३९) इत्यनेन सूत्रेण 'म्' कारस्य "व्” कारे, “वन्मथ" इति जाते, "न्मोमः” (प्रा. ३. ४३) इत्यनेन सूत्रेण 'न्म' इत्यस्य 'म' आदेशे, “वमथ” इति प्राप्ते, “शेषादेशयोर्द्वित्वमनादौ " (प्रा. ३.५० ) इत्यनेन सूत्रेण 'म्' इत्यस्य द्वित्वे " वम्मथ" इति जाते, “खघथधभां हः " (प्रा. २.२७) इत्यनेन सूत्रेण 'थ्' इत्यस्य 'ह' कारे, " वम्मह" इति प्राप्ते " अत ओत् सोः " (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्यप्रथमाविभक्ति एकवचने "सु" इत्यस्य “ओत्वे”, “वम्महो” रूपं सिद्धम्।
४०. लाहले णः
सुबोधिनी
एष्वादेर्णः स्यात् । णाहलो लाहलो। गंगणं लंगलं गंगूलं लंगूलं ॥३६॥
सञ्जीवनी
एषु शब्देषु आदेर्वर्णस्य णकारादेशो भवति वा । णहलो लाहलो लाहलमेव । णांगलं लांगलं । णांगूलं लांगूलं । अदातो यथादिषु वा इत्यत्त्वम् । नपुंसके सोर्बिन्दुः इति बिन्दुः ॥ ३६ ॥