________________
210
प्राकृत व्याकरणम् अम्बिका ___“अयुक्तस्यामादौ” (प्रा: २.१) इत्यतः 'अयुक्तस्य' तथा “आदेर्यो जः' इत्यतः “आदेः" पदद्वयमनुवर्तते। .. . सत्रार्थः .. . .... ... . .
संस्कृतस्य स्त्रीलिङ्ग “बिसिनी" शब्दस्य आदि ‘ब्’ कारस्य स्थाने प्राकृते “भू” कारः भवति। यथा
बिसिनी > भिसिणी ...... “बिसिनी” इति स्थिते “बिसिन्यां भः” (प्रा. २.३८) इत्यनेन
सूत्रेण ‘ब्' इत्यस्य ‘भ्' कारे “भिसिनी" इति जाते, “नोणः सर्वत्र" . (प्रा. २.४२) इत्यनेन सूत्रेण 'न्' कारस्य 'ण' कारे “भिसिणी" इति रूपं सिद्धम्। समन्वयः
सूत्रे स्त्रीलिङ्ग निर्देशत्वात् केवलं स्त्रीलिङ्गात्मकशब्देषु अयं नियमः प्रयुज्यते। पुंलिङ्गे अयं नियमः न प्रयुज्यते। यथा
बिसम् > बिसं ३९. मन्मथे वः सुबोधिनी
अत्रादेवः स्यात्। वम्महो॥३५॥ सञ्जीवनी
मन्मथशब्दे आदेर्वर्णस्य वादेशः स्यात्। वम्महो। न्मो मः इति मः। तस्य शेषादेशादिनाद्वित्वे खघथादिना थस्य हः॥३५॥ प्राकृतमञ्जरी
शब्दे मन्मथ इत्यस्मिन् वकारादेश इष्यते। मकारस्यादिभूतस्य मन्मथो वम्महो मतः॥४०॥