SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 209 अयुक्तविधिः यथा पनसः > फणसो "पनसः” इति स्थिते “परुषपरिधपरिखासु फः" (प्रा. २.३६) इत्यनेन सूत्रेण 'प्' कारस्य 'फ' कारे, "फनस" इति जाते, "नोणः सर्वत्र" (प्रा. २.४२) इत्यनेन सूत्रेण 'न्' कारस्य “ण” कारे, “फणस" इति प्राप्ते, "अत ओत् सोः” (प्रा. २.३७) इत्यनेनसूत्रेण अदन्तस्यप्रथमाविभक्ति एकवचने 'सु' इत्यस्य “ओत्वे", "फणसो" रूपं सिद्धम्। समन्वयः "दीप्ति" व्यख्याकारस्यमतेन ‘पनस' शब्दः पूर्ववर्तीसूत्रे (परुषपरिधपरिखासु फः मा. २.३६) समाविष्टे, प्रस्तुतसूत्रमनावश्यकमिति प्रतियते। परन्तु स्वमतेन इदं प्रतिपाद्यते, परुष, परिध, परिखा एतेषाम् शब्दानांमध्यवर्ति वर्णः 'र' कारः, ततः भामहेन ‘पनस' शब्द निमित्तं स्वतन्त्रसूत्रनिर्मितम्, उच्चारण तथा श्रुतिसुखंत्वात्। ३८. बिसिन्यां भः सुबोधिनी ___ अत्रादेर्भः स्यात्। भिसिणी। 'प्रधान्याद् बिसशब्दस्य स्याद् भादेशोऽस्त्रियां तु वा'। भिसं विसं॥३४॥ सञ्जीवनी बिसिनीशब्दे आदेर्वर्णस्य भः स्यात्। भिसिणी। 'प्राधन्याद् बिसशब्दस्य स्याद् भादेशोऽस्त्रियां तु वा'। भिसं बिसं बिसमेव॥३४॥ प्राकृतमञ्जरी अमुष्मिन् बिसिनीशब्दे वबकारस्यादिवर्तिनः। विधीयते भकारत्वं बिसिनी भिसिनी मता। मनोरमा बिसिनी शब्दे आदेर्वर्णस्य भकारो भवति। भिसिणी। स्त्रीलिङ्ग निर्देशादिह न भवति - विसं।
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy