________________
208
प्राकृत व्याकरणम् परिधः > फलिहो “परिधः" इति स्थिते “परुषपरिधपरिखासु फः” (प्रा. २.३६) इत्यनेन सूत्रेण 'प्' इत्यस्य ‘फ्' कारे, ‘फरिध" इति जाते “हरिद्रादीनां रो लः” (प्रा. २.३०) इत्यनेन सूत्रेण 'र' इत्यस्य 'ल' कारे, “फलिध" इति जाते “खघथधभां हः” (प्रा. २.२७) इत्यनेन सूत्रेण 'ध्' इत्यस्य 'ह' कारे, “फलिह" इति जाते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्तिएकवचने 'सु' इत्यस्य 'ओ'त्वे “फलिहो" रूपं सिद्धम्।
परिखा > फलिहा “पारिखा" इति स्थिते “परुषपरिधपरिखासु फः” (प्रा. २.३६) इत्यनेन सूत्रेण “प्" इत्यस्य ‘फ्' कारे, “फरिखा” इति स्थिते, “हरिद्रादीनां रो लः” (प्रा. २.३०) इत्यनेन सूत्रेण ‘र्' इत्यस्य ‘ल्' कारे, “फलिखा” इति जाते, “खघथधभां हः” (प्रा. २.२७) इत्यनेन सूत्रेण “ख्" इत्यस्य "ह". कारे, “फलिहा” इति रूपं सिद्धम्। ३७. पनसेऽपि सुबोधिनी
‘पनसेऽपि पकारस्य फकारादेश इष्यते'। फणसं॥ सञ्जीवनी
‘पनसेऽपि पकारस्य फकारादेश इष्यते'। फणसो॥३३॥ मनोरमा __पनसशब्देऽपि ‘प्' कारस्य ‘फ्' कारो भवति। फणसो। अम्बिका
“अयुक्तस्यानादौ” (प्रा. २.१) तथा “आदेर्योजः” (प्रा. २.३१) इत्यतः यथाक्रमे 'अयुक्तस्य' तथा 'आदेः' पदद्वयमनुवर्तते। अम्बिका
संस्कृतस्य ‘पनस' शब्दस्य आदिवर्ण ‘प्' कारस्य स्थाने प्राकृते 'फ्' कारः आदिश्यते।