SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ अयुक्तविधिः 207 सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य 'ओत्वे', “ डसणो” रूपं सिद्धम् । ३६. परुषपरिधपरिखासु फः सुबोधिनी एष्वादेः फः स्यात् फरुसं फलिहो फलिहा । सञ्जीवनी एषु शब्देषु आदेर्वर्णस्य फः स्यात् । फरुसं परुषम्, फलिहो फलिहा परिघपरिखयोः । हरिद्रादीनां रो लः इति लः । खघथादिना खघयोर्हत्वम् । प्राकृतमञ्जरी परुषे परिघे चैव परिखायां च फो भवेत् । फरुसो फलिहो, तद्वत् फलिहा च त्रयः क्रमात्॥३७॥ मनोरमा एतेषु आदेर्वर्णस्य फकारो भवति । फ़रुसो । फलिहो । फलिहा ॥ अम्बिका (( 'अयुक्तस्यानादौ " (प्रा. २.१) इत्यतः 'अयुक्तस्य' तथा 'आदेर्यो जः” (प्रा. २.३१) इत्यतः “आदेः” पदद्वयमनुवर्त्तते । सूत्रार्थः परुषः, परिधः, परिखा आदि संस्कृत शब्दानाम् कारस्यस्थाने प्राकृते 'फ्' कारः आदिश्यते । यथा आदिवर्ण 'य्' परुषः > फरुसो ‘परुषः’ इति स्थिते “परुषपरिधपरिखासु फः” (प्रा. २.३६) इत्यनेन सूत्रेण 'प्' इत्यस्य 'फ्' कारे "फरुष" इति स्थिते, “शषोः सः” (प्रा. २.४३) इत्यनेन सूत्रेण 'ष्' इत्यस्य 'स्' कारे 'फरुस' इति स्थिते “अत ओत् सो: " ( प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य 'ओत्वे', "फरुसो" इति रूपं सिद्धम् ।
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy