________________
206
प्राकृत व्याकरणम् प्राकृतमञ्जरी
दोलायां दण्डशब्दे च दशने च डकारता।
आदेः स्यात् क्रमशो डोला डण्डो च डसणो मतः॥३५॥ मनोरमा
एषु आदेर्वर्णस्य डकारो भवति। डोला। डंडो। डसणो। अम्बिका __ “अयुक्तस्यानादौ” (प्रा. २.१) इत्यतः “अयुक्तस्य' तथा "आदेर्योजः” (प्रा. २.३१) इत्यतः “आदेः” पदद्वयमनुवर्तते। सूत्रार्थः
दोला, दण्ड तथा दशन आदि संस्कृत शब्देषु अयुक्तस्य आदि 'द' कारस्य स्थाने प्राकृते 'ड' कारः भवति। यथा
दोला > डोला "दोला' इति स्थिते “दोलादण्डदशनेषु डः” (प्रा. २.३५) इत्यनेन सूत्रेण 'द्' इत्यस्य 'ड्' कारे डोला रूपं सिद्धम्।
दण्डः > डण्डो "दण्डः' इति स्थिते “दोलादण्डदशनेषु डः' (प्रा. २.३५) इत्यनेन सूत्रेण 'द्' इत्यस्य 'ड्' कारे, “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्ति एकवचने 'सु' इत्यस्य ‘ओत्वे', "डण्डो" रूपं सिद्धम्।
दशनः > डसणो “दशनः" इति स्थिते “दोलादण्डदशनेषु डः” (प्रा. २.३५) इत्यनेन सूत्रेण 'द्' कारस्य 'ड्' कारे, “डशन" इति जाते, “शषोः सः" (प्रा. २.४३) इत्यनेन सूत्रेण 'श्' इत्यस्य ‘स्' कारे, “डसन" इति प्राप्ते, “नोणः सर्वत्र" (प्रा. २.४२) इत्यनेन सूत्रेण 'न्' कारस्य 'ण' कारे "डसण" इति स्थिते, “अत ओत् सोः” (प्रा. ५.१) इत्यनेन