________________
205
अयुक्तविधिः प्राकृतमञ्जरी
विधीयते कुञ्जशब्दे ककारस्य खकारता।
अनेन विधिना सन्तः कुजं खुशं प्रचक्षते॥३४॥ मनोरमा
कुब्जशब्दे आदेर्वर्णस्य खकारो भवति। खुज्जो। अम्बिका
“अयुक्तस्यानादौ” (प्रा. २.१) इत्यतः अयुक्तस्य तथा “आदेर्योजः" (प्रा. २.३१) इत्यतः “आदेः" पदद्वयमनुवर्तते। सूत्रार्थः ___ संस्कृतस्य “कुब्ज" शब्दस्य आदि वर्ण 'क्' कारस्य स्थाने प्राकृते 'ख' कारः भवति। यथा
कुब्जः > खुज्जो 'कुब्जः' इति स्थिते “कुब्जे खः” (प्रा. २.३४) इत्यनेन सूत्रेण 'क्' इत्यस्य ‘ख्' कारे “खुब्ज" इति स्थिते, “सर्वत्र लवराम्” (प्रा. ३.३) इत्यनेन सूत्रेण ‘ब्' इत्यस्य लोपे “खुज" इति जाते "शेषादेशयेर्द्वित्वमनादौ” (प्रा. ३.५०) इत्यनेन सूत्रेण ‘ज्' इत्यस्य द्वित्वे, "खुज्ज" इति स्थिते, “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्तिएकवचने 'सु' इत्यस्य "ओ" कारे "खुज्जो" रूपं सिद्धम्। ३५. दोलादण्डदशनेषु डः सुबोधिनी
एष्वादेर्डः स्यात्। डोला डंडो डसणो॥३२॥ सञ्जीवनी
एषु शब्देषु आदेर्वर्णस्य डकारादेशो भवति। डोला डंडो डसणो। दशनशब्दे जस्शसोर्लोपः। जस्शस्ङस्यांसु दीर्घः इति दीर्घः।। ३२॥