________________
204
प्राकृत व्याकरणम् मनोरमा
किरातशब्दे आदेर्वर्णस्य 'च' कारो भवति। चिलादो। अम्बिका
“अयुक्तस्यानादौ" (प्रा. २.१) इत्यतः “अयुक्तस्य” तथा “आदेर्यो जः" (प्रा. २.३१) इत्यतः ‘आदेः' पदद्वयमनुवर्तते। सूत्रार्थः
संस्कृतस्य किरातशब्दस्य आदिवर्ण 'क्' कारस्यस्थाने प्राकृते 'च' कारः भवति। यथा
किरातः > चिलादो "किरातः” इति स्थिते 'किराते चः' (प्रा. २.३३) इत्यनेन सूत्रेण 'क्' इत्यस्य 'च' कारे “चिरात" इति स्थिते, "हरिद्रादीनां रोलः" (प्रा. २.३०) इत्यनेन सूत्रेण 'र' कारस्य 'ल' कारे “चिलात" इति स्थिते, "ऋत्वादिषु तो दः” (प्रा. २.७) इत्यनेन सूत्रेण 'त्' इत्यस्य ' 'द्' कारे “चिलाद" इति स्थिते, “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्यप्रथमाभिक्तिएकवचने 'सु' इत्यस्य ‘ओत्वे', 'चिलादो' इति रूपंसिद्धम्। ३४. कुब्जे खः सुबोधिनी
अत्रादेः खः स्यात्। खुज्जो। “खादेशो नम्रदेहत्वे, न कुब्जे पुष्पवाचिनी।" फुल्लइ कुब्जं वसंतम्मि॥३१॥ सञ्जीवनी
कुब्जशब्दे आदेर्वर्णस्य खादेशो भवति। खुजो। सर्वत्र लवरामिति वलोपः। शेषादेशादिना द्वित्वम्। 'खादेशो नम्रदेहत्वे न कुब्जे पुष्पवाचिनी'। फुल्लइ कुब्जं वसंतम्मि॥३१॥