________________
अयुक्तविधिः अम्बिका
203
"अयुक्तस्यानादौ" (प्रा. २.१) इत्यतः “अयुक्तस्य” तथा “आदेर्योजः” (प्रा. २.३१) इत्यतः “आदेः” पदद्वयमनुवर्त्तते। सूत्रार्थः
संस्कृतस्य यष्टि शब्दस्य आदौ विद्यमाने असंयुक्त “य्” कारस्य स्थाने प्राकृते 'ल' कारः भवति ।
यथा
यष्टिः > लट्ठी
"यष्टिः" इति स्थिते " यष्टयां लः” (प्रा. २.३२) इत्यनेन सूत्रेण 'य्' इत्यस्य 'ल्' कारे, "लष्टि" इति स्थिते "ष्टस्य ठः" (प्रा. ३.१० ) इत्यनेन सूत्रेण ष्टस्य व्' कारे, “लठि" इति जाते “ शेषादेशयर्द्वित्वमनादौ ” (प्रा. ३.५० ) इत्यनेन सूत्रेण 'ठू' इत्यस्य द्वित्वे, "लति" इति प्राप्ते "वर्गेषु युजः पूर्व:" (प्रा. ३.५१) इत्यनेन सूत्रेण 'व्' इत्यस्य 'ट्' कारे, “लट्ठि” इति जाते, “सुभिस्सुप्सु दीर्घ” (प्रा. ५.१८) इत्यनेन सूत्रेण इदन्तस्य दीर्घत्वे " लट्ठी” इति रूपं सिद्धम् ।
३३. किराते चः
सुबोधिनी
अत्रादिवर्णस्य चः स्यात् । चिलाओ।
'म्लेच्छे वाच्ये लचादेशौ न हरे कामरूपिणि' । हरकिराओ ॥३०॥
सञ्जीवनी
आदेरित्यनुवर्तते नो णः इत्यतः प्राक् । किरातशब्दस्यादेवर्णस्य चादेशः स्यात् । चिलाओ । हरिद्रादित्वात् लः । कगचादिना तलोपः । 'म्लेच्छवाच्ये लचादेशौ न हरे कामरूपिणि । तेन किराओ हरः ॥ ३० ॥ प्राकृतमञ्जरी
आदेः किरातशब्दस्य वकारस्य चकारता ।
विधीयते किरातश्च चिलाओ कथ्यते बुधैः ॥ ३३ ॥