________________
202
प्राकृत व्याकरणम् 'य्' इत्यस्य ‘ज्' कारे, “जक्ष" इति जाते “कस्कक्षां खः” (प्रा. ३.२९) इत्यनेन सूत्रेण 'क्ष्' इत्यस्य ‘ख्' कारे, “जख" इति प्राप्ते, "शेषादेशयोर्द्वित्वमनादौ" (प्रा. ३.५०) इत्यनेन सूत्रेण ‘ख्' कारस्य द्वित्वे, “जख्ख" इति जाते, “वर्गेषुयूजः पुर्वः” (प्रा. ३.५१) इत्यनेन सूत्रेण ‘ख्' इत्यस्य “क्” कारे "जक्ख" इति प्राप्ते “अत ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्तिएकवचने 'सु' इत्यस्य 'ओ' कारे "ज़क्खो" रूपं सिद्धम्।
यमुना > जमुणा 'यमुना' इति स्थिते “आदेर्यो जः” (प्रा. २.३१) इत्यनेन सूत्रेण आदि ‘य्' इत्यस्य 'ज्' कारे, “जमुना” इति जाते “नोणः सर्वत्र" (प्रा. २.४२) इत्यनेन सूत्रेण "न्" इत्यस्य 'ण' कारे, "जमुणा” इति रूपं सिद्धम्। ३२. यष्टयां लः सुबोधिनी
अत्र यस्य लः स्यात्। लट्ठी खग्गलट्ठी॥२९॥ सञ्जीवनी ___ यष्टिशब्दे अकारस्य लादेशः स्यात्। लट्ठी यष्टिः। ष्टस्य ठः इति ठः। तस्य द्वित्वे वर्गे युजः पूर्वः इति टः। सुभिःसुप्सु दीर्घः इति दीर्घः। अन्त्यस्य हलः इति सुलोपः। तदन्तोऽपि खग्गलट्ठी महुलट्ठी खङ्गयष्टिमधुयष्ट्ययोः॥२९॥ प्राकृतमञ्जरी
यष्ठिशब्दे भवेदादेर्यकारस्य लकारता।
यष्टिस्तेन भवेल्लट्ठी पूर्वसूत्रापवादतः।।३२॥ मनोरमा
यष्टिशब्दे 'य' कारस्य 'ल' कारो भवति। लट्टी।