________________
201
अयुक्तविधिः प्राकृतमञ्जरी
अनादाविति मुक्तं तदादेरिति पदे पदे। अधिकारोऽयमा “नो णः सर्वत्र" इत्यमुतः पुरा॥ पदस्यादेर्यकारस्य जकारत्वं विधीयते।
यज्ञो जणो भवेद् भूयो यात्रा जत्ता यमो जमो॥३२॥ मनोरमा
अनादिरिति निवृत्तम्। आदिभूतस्य "य" कारस्य जकारो भवति। जट्ठी। जसो। जक्खो॥ यष्टिः। यशः। यक्षः।। अम्बिका
"अयुक्तस्यानादौ" (प्रा. २.१) इत्यतः 'अयुक्तस्य" पदमनुवर्तते। सूत्रे “आदे” इति ग्रहणत्वात् "अनादौ” पदमप्यनुवर्तते। सूत्रार्थः
संस्कृतशब्देषु आदिषु अनादिष्वपि विद्यमाने असंयुक्त “य्" इत्यस्यस्थाने प्राकृते ‘ज्' कारः भवति। यथा
यौवनम् > जोव्वणं "यौवनम्" शब्दस्य प्रक्रियां प्रथमपरिच्छेदस्य “औत ओत्" (प्रा. १.४१) सूत्रप्रसङ्गे द्रष्टव्यम्।
यशः > जसो “यशः” इति स्थिते “आदेर्यो जः” (प्रा. २.३१) इत्यनेन सूत्रेण 'य' कारस्य ‘ज्' कारे, “जश" इति स्थिते “शषोः सः” (प्रा. २. ४३) इत्यनेन सूत्रेण 'श्' इत्यस्य 'स्' कारे, “जस' इति जाते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य 'ओ' कारे, “जसो" रूपं सिद्धम्।
___ यक्षः > जक्खो “यक्षः" इति स्थिते “आदेर्यो जः” (प्रा. १.३१) इत्यनेन सूत्रेण