SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ 200 प्राकृत व्याकरणम् अंगुरी > अंगुली 'अंगुरी' इति स्थिते “हरिद्रादीनां रो लः” (प्रा. २.३०) इत्यनेन सूत्रेण 'र' कारस्य ‘ल' कारे, “अंगुली" इति रूपं सिद्धम्। अंगारः > इङ्गालो अस्य प्रक्रियां “इदीप्रत्पक्चस्वप्नवेतसव्यजनमृदाङ्गाऽङ्गारेषु" (प्रा. १.३) सूत्रप्रसङ्गे द्रष्टव्यम्। किरातः > चिलादो अस्यप्रक्रियां “किराते च" (प्रा. २.३३) इति सूत्रप्रसङ्गे द्रष्टव्यम्। परिखा > फलिहा अस्यप्रक्रियां “पुरुषपरिधयपरिखासु फः” (प्रा. २.३६) इति सूत्र प्रसङ्गे द्रष्टव्यम्। परिधः > फलिहो अस्य प्रक्रियां “पुरुषपरिधपरिखा सु फ" (प्रा. २.३६) इति सूत्र प्रसङ्गे द्रष्टव्यम्। . ३१. आदेर्यो जः सुबोधिनी पदादिस्थितस्य यस्य जः स्यात्। जुअई युवतिः। आदेरिति किम्? णअणं। ‘प्रक्षिप्तपूर्वकस्यापि यस्य जादेश इष्यते'। गाढजोव्वणा॥२८॥ सञ्जीवनी य इत्यक्षरं षष्ठयन्तम्। आदिभूतस्य यकारस्य जादेशो भवति। जोव्वणं यौवनम्। औत ओत् इति ओत्त्वम्। 'नीडादिषु' इति वस्य द्वित्वम्। नो णः इति णः। जुअई युवतिः। कगचादिना तवयोर्लोपः। सुभिःसुप्सुदीर्घः इति दीर्घः। जामिनी यामिनी। आदेरिति किम्? अवअवो अवयवः। अअणं अयनम्। 'भूतपूर्वादिकस्यापि यस्य जादेश इष्यते'। गाढजोव्वणा। बालजुअई बालयुवतिः। सजामिणी सयामिनी। संजमो अजोग्गो संयमायोग्ययोः॥२८॥
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy