________________
199
अयुक्तविधिः
घरणः > चलणो ___ "चरणः' इति स्थिते “हरिद्रादीनां रोलः'' (प्रा. २.३०) इत्यनेन सूत्रेण 'र' इत्यस्य ‘ल'त्वे "चलण" इति स्थिते “अत ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्तिएकवचने 'स' इत्यस्य “ओत्वे", "चलणो" इति रूपं सिद्धम्।
मुखरः > मुहलो 'मुखरः' इति स्थिते “खघथधभां हः” (प्रा. २.२७) इत्यनेन सूत्रेण 'ख्' इत्यस्य ‘ह्' कारे "मुहर” इति स्थिते “हरिद्रादीनां रो लः" (प्रा. २.३०) इत्यनेन सूत्रेण 'र' इत्यस्य 'ल' कारे, “मुहलो" इति जाते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदम्तस्य प्रथमा विभक्तिएकवचने “सु" इत्यस्य “ओत्वे", "मुहलो" रूपं सिद्धम्।
__युधिष्ठिरः > जहिट्ठिलो अस्य प्रक्रियां “अन्मुकुटादिषु" (प्रा. १.२२) इति सूत्रप्रसङ्गे द्रष्टव्यम्।
सुकुमारः > सोमालो "सुकुमारः” इति स्थिते “अन्मुकुटादिषु” (प्रा. १.२२) इत्यनेन सूत्रेण “आदि 'उ' इत्यस्य 'अ' कारे, "सकुमार" इति स्थिते "कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'क्' इत्यस्य लोपे “सउमार" इति जाते “आदि-अ" तथा 'उ' एतयोः गुणे “सोमार" इति स्थिते “हरिद्रादीनां रोलः" (प्रा. २.३०) इत्यनेन सूत्रेण ‘र्' इत्यस्य 'ल' कारे, “सोमाल" इति जाते, “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्तिएकवचने 'सु' इत्यत्य ओत्वे, “सोमालो" इति रूपं सिद्धम्।
करुणम् > कलुणं 'करुण' इति स्थिते, “हरिद्रादीनां रो लः” (प्रा. २.३०) इत्यनेन सूत्रेण ‘र्' कारस्य ‘ल्' कारे, “कलुण" इति जाते “सोर्बिन्दुनपुंसके" (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके 'सु' इत्यस्य 'बिन्दुत्त्वे' (अनुस्वारे) 'कलुणं' रूपं सिद्धम्।