________________
अयुक्तविधिः
197 अम्बिका
“अयुक्तस्यानादौ” (प्रा. २.२९) इत्यतः “अनादौ" तथा "खघथधभां हः” (प्रा. २.२७) इत्यतः "भ्" इति पदद्वंयमनुवर्तते। "खघथधभां हः” (प्रा. २.१७) इति सूत्रस्य 'भ' कारस्य स्थाने 'ह' कारस्य बाधकसूत्रमेव सूत्रमिदम्। सूत्रार्थः . "कैटभ' शब्दस्य अनादौ विद्यमाने "भ्' कारस्य स्थाने प्राकृते "व्" कारादेशः भवति।
कैटभः > केढवो अस्य प्रक्रियां तु “सटाशकटकैटभेषु दुः" (प्रा. २.२१) सूत्रप्रसङ्गे द्रष्टव्यम्। ३०. हरिद्रादीनां रोलः सुबोधिनी एषां रस्य लः स्यात्।
हरिद्रामुखराङ्गारसुकुमारयुधिष्ठिरान्। . . किरातपरिघौ चैव हरिद्रादीन् प्रचक्षते॥ हलिद्दा मुहलो इंगालो सोमालो जुहिट्ठिलो किलाओ फलिहो। अनादावित्यधिकारो निवृत्तः॥२७॥ सञ्जीवनी
र इत्यक्षरं षष्ठ्यन्तम्। हरिद्रासदृशेषु शब्देषु रेफस्य लादेशः स्यात्। हलद्दी हरिद्रा। अत् पथिहरिद्रापृथिवीष्विति इकारस्य अत्त्वम्। द्रे रो वा इति रलोपः। शेषादिना दस्य द्वित्वम्। अन्त्यस्य हल इति सुलोपः। मुहलो मुखरः। खघथादिना खस्य हः। इंगालो अङ्गारः। इदीषदित्यादिना अकारस्य इत्त्वम्। सोमालो सुकुमारः। उत ओत् तुण्डरूपेषु इति अतः ओत्त्वम्। कगचादिना कलोपः। सन्धावचामित्यादिना उलोपः। जुहिठुिलो युधिष्ठिरः। आदर्यो जः इति जः। खधथादिना धस्य हत्वम्। उपरि लोपः इत्यादिना पलोपः। चिलाओ किरातः। 'किराते च' इति कस्य यः।