________________
196
प्राकृत व्याकरणम् प्रथमाविभक्तिएकवचने "सु" इत्यस्य "ओ" कारे ‘पढमो' रूपं सिद्धम्।
शिथिलः > सिढिलो "शिथिलः" इति स्थिते “शषोः सः" (प्रा. २.४३) इत्यनेन सूत्रेण 'श्' इत्यस्य 'स्' कारे, “सिथिल" इति जाते “प्रथमशिथिलनिषधेषु ढः" (प्रा. २.२८) इत्यनेन सूत्रेण 'थ्' इत्यस्य 'द' कारे "सिढिल" इति जाते “अत ओत् सोः" इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्ति एकवचने 'सु' इत्यस्य 'ओ' कारे “सिढिलो" रूपं सिद्धम्।
निषधः > णिसढो - "निषधः” इति स्थिते 'न्' इत्यस्य 'ण' कारे, “नो णः सर्वत्र" (प्रा. २.४२) इत्यनेन सूत्रेण, “शषोःसः” (प्रा. २.४३) इति सूत्रेण 'ष' कारस्य ‘स्' कारे, “णिसध" इति जाते “प्रथमशिथिलनिषधेषु ढः" (प्रा. २.२८) इत्यनेन 'ध्' इत्यस्य 'द' कारे, “णिसढ" इति प्राप्ते "अत ओत् सोः” इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्तिएकवचने "सु" इत्यस्य "ओ" कारे, “णिसढो" रूपं सिद्धम्। २९. कैटभे वः सुबोधिनी
अत्र भस्य वः स्यात्। केढवो॥२६॥ सञ्जीवनी
कैटभशब्दे भस्य वादेशः स्यात्। हत्वस्य बाधकः। केढवो सटाशकटादिना टस्य ढः। ‘ऐत एत्' इति एत्त्वम्॥ २६ ।। प्राकृतमञ्जरी
कैटभे तु भकारस्य वकारादेश इष्यते।
ततः कैटभ इत्येष वाच्यः कइढवो बुधैः॥ मनोरमा
कैटभशब्दे 'भ' कारस्य 'व' कारो भवति। केढवो।