________________
195
अयुक्तविधिः ओत्वे “णिब्भरो" इति रूपं सिद्धम्। - एतयोः द्वयोः उदाहरणयोः ‘घ्' तथा 'भ्' संयुक्तत्वात् 'ह' कारेण न परिवर्त्तते। २८. प्रथमशिथिलनिषधेषु ढः सुबोधिनी
एषु थघयोढः स्यात्। पढमो सिढिलो निसढो॥२५॥ सञ्जीवनी
एषां थकारस्य धस्य च ढादेशः स्यात्। पढमो। प्रथमः सिढिलो निसढो शिथिलनिषधयोः ‘शषोः सः' इति सः॥२५॥ प्राकृतमञ्जरी
प्रथमे शिथिले चैव निषधेऽपि च ढो भवेत्।
थधयोः पढमं तेन सिढिलो णिसढो क्रमात्॥ मनोरमा
एतेषु थधयोर्डकारो भवति। पढमो सिढिलो। णिसढो। अम्बिका
“अयुक्तस्यानादौ” (प्रा. २.२८) इत्यतः “अनादौ” तथा "खघथधभां हः” (प्रा. २.२७) इत्यतः 'थ्' तथा 'ध्' कारौ अनुवर्तते। सूत्रार्थः
प्रथमः, शिथिलः, तथा निषधः इति संस्कृत शब्दानामनादौ विद्यमाने 'थ्' कारस्य तथा 'ध्' कारस्य स्थाने प्राकृते “ढ्" कारः आदिश्यते। यथा
प्रथमः > पढमो ___ “प्रथमः” इति स्थिते “सर्वत्र लवराम्" (प्रा. ३.३) इत्यनेन सूत्रेण 'र' कारस्य लोपे, “पथम” इति स्थिते “प्रथमशिथिलनिषधेषु ढः" (प्रा. २.२८) इत्यनेन सूत्रेण 'थ्' कारस्य 'ढ' कारे, “पढम” इति स्थिते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य