________________
194
प्राकृत व्याकरणम् “प्रायः” इति पदेन 'ह' कारे अपरिवर्तितत्वात् “अधीरो" रूपं सिद्धम्।
अभयः > अभओ 'अभयः' इति स्थिते “कगचजतदपयवां प्रायो लोपः” (प्रा. २. २) इत्यनेन सूत्रेण 'य' इत्यस्य लोपे “अत ओत् सोः” (प्रा. ५. १) इत्यनेन अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य ‘ओ' कारे 'अभओ' रूपं सिद्धम्।
__ अपिच, व्यञ्जनवर्णेनसंयुक्तेन खघथधभ इति ध्वनिनां न तु 'ह' कारः भवति। यथा
निर्घोषः > णिग्योसो 'निर्घोष' इति स्थिते “नो णः सर्वत्र” (प्रा. २.४२) इत्यनेन सूत्रेण 'न्' कारस्य 'ण' कारे, “णिर्घोष" इति जाते “सर्वत्र लवराम्" (प्रा. ३.३) इत्यनेन सूत्रेण ‘र्' इत्यस्य लोपे, “णिघोष” इति प्राप्ते "शेषादेशयोर्द्वित्वमनादौ" (प्रा. ३.५०) इत्यनेन सूत्रेण 'घ्' इत्यस्य द्वित्वे, “णिघ्घोष" इति स्थिते “वर्गेषु युजः पूर्वः” (प्रा. ३.५१) इत्यनेन सूत्रेण 'घ्' कारस्य 'ग्' कारे, “णिग्घोष" इति प्राप्ते "शषोः सः” (प्रा. २.४३) इत्यनेन सूत्रेण "ए" कारस्य 'स्' कारे, “णिग्घोस" इति जाते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्ति “एकवचने' 'सु' इत्यस्य "ओ" कारे "णिग्घोसो" इति रूपं सिद्धम्।
निर्भरः > णिल्भरो "निर्भरः” इति स्थिते “नो णः सर्वत्र" (प्रा. २.४२) इत्यनेन सूत्रेण 'न्' कारस्य 'ण' कारे, “णिर्भर" इति जाते “सर्वत्र लवराम्" (प्रा. ३.३) इत्यनेन सूत्रेण 'र' कारस्य लोपे, “णिभर" इति प्राप्ते “शेषादेशयोर्द्वित्वमनादौ” (प्रा. ३.५०) इत्यनेन सूत्रेण 'भ्' कारस्य द्वित्वे, “णिभ्भर” इति प्राप्ते “वर्गेषु युजः पूर्वः” (प्रा. ३.५१) इत्यनेन "भ्' कारस्य ‘ब्' कारे, “णिभर" इति जाते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्तिएकवचने 'सु' इत्यस्य