________________
193
अयुक्तविधिः 'ध्' कारस्य 'ह' कारे "राहा” इति रूपं सिद्धम्।
बधिरः > बहिरो "बधिरः” इति स्थिते “खघथधभां हः” (प्रा. २.२७) इत्यनेन सूत्रेण 'ध्' इत्यस्य ‘ह्' कारे, “बहिर" इति जाते “अत ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण “अदन्तस्य प्रथमाविभक्तिएकवचने 'सु' इत्यस्य ओत्वे "बहिरो” इति रूपं सिद्धम्।
भ > ह = रासभः > रासहो "रासभः” इति स्थिते “खघथधभां हः” (प्रा. २.२७) इत्यनेन सूत्रेण "भ्" इत्यस्य "ह" कारे, “रासह" इति प्राप्ते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण “अदन्तस्य प्रथमाविभक्तिएकवचने 'सु' इत्यस्य “ओत्वे" "रासहो” इति रूपं सिद्धम्।
सभा > सहा "सभा” इति स्थिते “खघथधभां हः” (प्रा. २.२७) इत्यनेन सूत्रेण 'भ्' इत्यस्य ‘ह्' कारे “सहा" रूपं सिद्धम्। समन्वयः
प्रस्तुत सूत्रे “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यतः "प्रायः" पदस्यानुवृत्तिर्भवति। अतः कतिपयशब्देष्वोपरोक्तध्वनिनां 'ह' कारः न भवति। यथा
प्रखलः > पखलो “प्रखलः” इति स्थिते “सर्वत्र लवराम्" (प्रा. ३.३) इत्यनेन सूत्रेण 'र' इत्यस्य लोपे “पखल” इति जाते “अत ओत् सोः” (प्रा. ५. १) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य 'ओत्वे' 'पखलो' रूपं सिद्धम्। अत्र 'ख' इत्यस्य न 'ह' कारः।
अधीरः > अधीरो "अधीरः” इति स्थिते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्तिएकवचने 'सु' इत्यस्य 'ओ' कारे, ‘ध्' कारस्य