________________
192
प्राकृत व्याकरणम् यथा
ख > ह = मुखम् > मुहं 'मुखम्' इति स्थिते “खघथधभां हः" (प्रा. २.२७) इत्यनेन सूत्रेण 'ख्' इत्यस्य ‘ह्' कारे “सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) 'मुहं' इति रूपं सिद्धम्।
मेखला > मेहला - 'मेखला' इति स्थिते “खघथधभां हः” (प्रा. २.२७) इत्यनेन सूत्रेण .. ‘ख्' इत्यस्य "ह" कारे “मेहला” इति रूपं सिद्धम्।
घ > ह = मेघः > मेहो 'मेघः' इति स्थिते “खयथथभां हः” (प्रा. २.२७) इत्यनेन सूत्रेण 'घ्' इत्यस्य 'ह' कारे, “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने "सु" इत्यस्य “ओत्वे", "मेहो" इति रूपं सिद्धम्।
जघनम् > जहणं “जघनम्” इति स्थिते “खघथधभां हः” (प्रा. २.२७) इत्यनेन सूत्रेण 'घ्' इत्यस्य 'ह' कारे, “जहनम्" इति जाते “नोणः सर्वत्र" (प्रा. २.४२) इत्यनेन सूत्रेण 'न्' कारस्य 'ण' कारे, “जहणम्" इति प्राप्ते “सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) “जहणं" इति रूपं सिद्धम्।
थ > ह = गाथा > गाहा "गाथा" इति स्थिते “खघथधभां हः” (प्रा. २.२७) इत्यनेन सूत्रेण 'थ्' इत्यस्य 'ह' कारे गाहा इति रूपं सिद्धम्।
शपथः > सवहो अन्य प्रक्रियां अस्मिन् परिच्छेदे “पोवः” (प्रा. २.१५) सूत्रप्रसङ्गे द्रष्टव्यम्।
ध > ह = राधा > राहा - 'राधा' इति स्थिते “खघथधभां हः” (प्रा. २.२७) इत्यनेन सूत्रेण