SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ अयुक्तविधिः 191 बन्धणो णिष्फलो णिब्भरो। अनादाविति किम्? खलो घणो थिरो धीरो फणा भीसणो । 'न हत्वं खघथादीनां परेषां बिन्दुतो भवेत् । संखो लंघणं मंथरा बंधुरो किंफलो कुंभो । क्वचित् तद्वर्गान्त इति तद्वर्गादन्यत्रायं निषेधः । तद्वर्गान्ते तु अयुक्तस्येति सत्राधिकारात् हत्वाभावः । ‘प्रायःशब्दानुवृत्त्यापि हत्त्वाभावः क्वचिद् भवेत् । अखंडो णिग्घणो थिरो अधमो बहुफलो अभजो इत्यादयः । ' ककुदे तु दकारस्य हकारादेश इष्यते' | कउहं ॥ २४ ॥ प्राकृतमञ्जरी खघथानां धकारस्य भकारस्यापि हो भवेत् । मेखला विघसो नाथो विधिः शोभनमीदृशम् ॥ मेहला विहसो णाहो विही सोहणमुच्यते ॥ पखलो पलअघणो पाथेअं घणसभा क्रमेण पुनः । पञ्चस्वेषु न हत्वं प्रायोवृत्तिप्रसङ्गेन ॥२७॥ मनोरमा खादीनां पञ्चानामयुक्तानामनादि वर्त्तिनाम् हकारो भवति । खस्य तावत् - मुहं । मेहला । घस्य- मेहो । जहण । थस्य - गाहा । सवहो । धस्य - राहा, बहिरो । भस्य - सहा, रासहो । प्राय इत्येव - पखलो। पलंघणो । अधीरो । अधणो। उपलद्धभावो ॥ मुखम्, मेखला, मेघः, जघनम्, गाथा, शपथः, राधा, बधिरः, सभा, रासभः, प्रखल, प्रलङ्घनः, अधीरः, अधनः, उपलब्धभावः ॥ अम्बिका (( 'अयुक्तस्यानादौ” (प्रा. २.१) इत्यतः “अयुक्तस्य” तथा “अनादौ” पदद्वयमनुवर्त्तते। सूत्रार्थः संस्कृतशब्देषु अनादौविद्यमानेषु असंयुक्त 'ख्’, ‘घ्’, ‘थ्’, 'ध्', तथा 'भ्' ध्वनिनां स्थानेषु प्राकृते प्रायतः 'ह' कारः भवति ।
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy