________________
190
प्राकृत व्याकरणम् इत्यनेन सूत्रेण ‘फ्' कारस्य ‘भ्' कारे “सिभा” इति रूपं जातम्।
__ शेफालिका > सेभालिआ
"शेफालिका" इति स्थिते "शषोः सः' (प्रा. २.४३) इत्यनेन सूत्रेण 'श्' कारस्य 'स्' कारे, “सेफालिका" इति जाते “फोभः" (प्रा. २.२६) इत्यनेन सूत्रेण 'फ्' कारस्य 'भ' कारे “सेभालिका" इति प्राप्ते “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'क्' कारस्य लोपे “सेभालिआ” इति रूपं सिद्धम्।
. शफरी > सभरी _ 'शफरी' इति स्थिते “शषोः सः” (प्रा. २.४३) इत्यनेन सूत्रेण 'श' कारस्य 'स्' कारे, “सफरी" इति जाते “फोभः" इत्यनेन सूत्रेण ‘फ्' इत्यस्य 'भ्' कारे “सभरी" इति रूपं सिद्धम्। २७. खघथधभां हः सुबोधिनी
एषामनुक्तानामनादिस्थितानां हः स्यात्। मेहला मेखला। मेहो मेघः पहिओ पथिकः अहरो अधरः सेहालिआ शेफालिका वल्लहो वल्लभः। अयुक्तस्येति किम्? सङ्खो णिग्घोसो इत्यादि। अनादौ किम्? खलो घणो इत्यादि।
'न हत्वं खघथादीनां परेषां बिंदुतो भवेत्'। संखो लंघनमित्यादौ।
'प्रायःशब्दानुवृत्त्याऽपि हत्वाऽभावः क्वचिद्ववेत्'। अखण्डो णवघणो अधमो बहुफलो अभओ ‘ककुदे तु दकारस्य हकारः परिदृश्यते' कउहं।।२४॥ सञ्जीवनी
एषां खादीनाम् अयुक्तनामनादौ स्थितानों हादेशः स्यात्। खस्य तावत्-मुहला मेहला मुखरामेखलयोः। घस्य-अमोहो मेहो अमोघमेघयोः। थस्य-पहिओ महिओ पथिकमथिकयोः। घस्य-अहरो बहिरो अधरबधिरयोः। फस्य-सुहला सेहालिआ सुफलासेफालिकयोः। भस्य-वल्लहो करहो वल्लभकर भयोः। अयुक्तस्येति किम्? सङ्खो णिग्घोसो पत्थरो