SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ 189 अयुक्तविधिः यथा अङ्कोठः > अंकोल्लो "अङ्कोठ" इति स्थिते “ययि तदवर्गान्तः' (प्रा. ४.१७) इत्यनेन सूत्रेण विकल्पेन 'ङ' इत्यस्य अनुस्वारे “अंकोठ' इति जाते “अङ्कोले (ठ) ल्लः" (प्रा. २.२५) इत्यनेन सूत्रेण 'ठ्' इत्यस्य स्थाने “ल्ल्" आदेशे, “अंकोल्ल" इति प्राप्ते “अप्त ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्ति एकवचने "सु" इत्यस्य “ओत्वे", • “अंकोल्लो" रूपं सिद्धम्। 'चन्द्रिका' आदि व्याख्यायाम् “अङ्कोठे" इति उपलब्धम्। २६. फोभः प्राकृतमञ्जरी फकारस्य भकारत्वं प्रायेणात्र पदे पदे। शेफाली तेन सेभाली रेफो रेभो कफः कभो॥ मनोरमा फकरस्यायुक्तस्यानादिभूतस्य भकारो भवति। सिभा। सेभालिआ। सभरी। संभलं। अम्बिका "अयुक्तस्यानादौ” (प्रा. २.१) इत्यतः “अयुक्तस्य", तथा “अनादौ" पदद्वयमनुवर्तते। सूत्रार्थः संस्कृतशब्देषु अनादौ विद्यमाने असंयुक्त ‘फ्' कारस्य स्थाने (प्राकृते) 'भ्' कारादेशः भवति। यथा शिफा > सिभा शिफा इति स्थिते “शषोः सः” (प्रा. २.४३) इत्यनेन सूत्रेण 'श्' कारस्य ‘स्' कारे, “सिफा' इति जाते “फोभः” (प्रा. २.२६)
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy