________________
188
प्राकृत व्याकरणम् समन्वयः
अन्यव्यंजनवर्णेन सह संयुक्त ‘ठ्' इत्यस्य 'द' कारः न भवति। यथा
__कण्ठः > कंठो "कण्ठ" इति स्थिते “ययि तदवर्गान्तः” (प्रा. ४.१७) इत्यनेन सूत्रेण विकल्पेन ‘ण्' इत्यस्य अनुस्वारे, “अत ओत् सोः” (प्रा. ५. १) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने "सु" इत्यस्य "ओत्वे", "कंठो” इति रूपं सिद्धम्। अत्र ‘ठ्' इत्यस्य ‘द' कारे न परिवर्तते। २५. अकोले (ठ) ल्लः सुबोधिनी
. अत्र ठस्य ल्लः स्यात्। अंकोल्लो॥२३॥ ... सञ्जीवनी .
अंकोठशब्दे ठस्य द्वित्वमापन्नो ल्ल आदेशः स्यात्। अंकोल्लो॥२३॥ प्राकृतमञ्जरी
इतरेतरसंश्लिष्टलकारद्वितयं भवेत्।
ठस्यां कोठे तढं कोठमंकोल्लं तद्विदो विदुः॥ २५॥ मनोरमा ___ अङ्कोलशब्दे लकारस्य लकारो भवति। अङ्कोल्लो। अम्बिका
"अयुक्तस्यानादौ” (प्रा. २.१) इत्यतः “अनादौ” तथा “ठो ढः" इत्यतः (प्रा. २.२४) 'ठः' पदद्वयमनुवर्तते। सूत्रार्थः
'अङ्कोठ' इति संस्कृत शब्दस्य अनादौ विद्यमाने "" कारस्य स्थाने प्राकृते “ल्ल्” कारः आदिश्यते।