________________
187
अयुक्तविधिः प्राकृतमञ्जरी
ठकारस्य ढकारः स्यादुत्सर्गेण पदे पदे।
पीठी पीढी मता माठी माढी तद्वन्मठो मढो।।२४।। मनोरमा
ठकारस्यायुक्तस्यानादि भूतस्य ढकारो भवति। मढो। जढरं। कढोरं॥ मठः। जठरम्। कठोरम्॥ अम्बिका ___ “अयुक्तस्यानादौ" (प्रा. २.१) इत्यतः “अयुक्तस्य” तथा “अनादौ" पदद्वयमनुवर्तते। सूत्रार्थः
संस्कृतशब्देषु अनादौ विद्यमाने असंयुक्त “त्' कारस्य स्थाने प्राकृते ‘ढू' कारः भवति। यथा
__मठः > मढो ‘मठः' इति स्थिते “ठो ढः” (प्रा. २.२४) इत्यनेन सूत्रेण '' कारस्य 'ढ्' कारे, “अत ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य ‘ओत्वे', “मढो" रूपं सिद्धम्।
कठोरम् > कढोरं ‘कठोरम्' इति स्थिते “ठोढः” (प्रा. २.२४) इत्यनेन सूत्रेण "" कारस्य "ढ" कारे, “मोर्बिन्दः” (प्रा. ४.१२) इत्यनेन सूत्रेण 'म्' इत्यस्य “बिन्दुत्वे” (अनुस्वारे) “कढोरं" रूपं सिद्धम्।
. जठरम् > जढरं 'जठरम्' इति स्थिते “ठोढः” (प्रा. २.२४) इत्यनेन सूत्रेण 'ठ्' कारस्य ‘ढ्' कारे, “मोर्बिन्दुः” (प्रा. ४.१२) इत्यनेन सूत्रेण 'म्' इत्यस्य "बिन्दुत्वे" (अनुस्वारे) “जढरं" रूपं सिद्धम्।