________________
186
प्राकृत व्याकरणम् - षोड़श > सोलह 'षोड़श' इति स्थिते "शषोः सः" (प्रा. २.४३) इत्यनेन सूत्रेण 'ए' कारस्य ‘स्' कारे “सोड़श" इति जाते, “डस्य च” (प्रा. २. २३) इत्यनेन सूत्रेण 'ड्' कारस्य 'ल' कारे “सोलश" इति जाते, "दशादिषु हः” (प्रा. २.४४) इत्यनेन सूत्रेण 'श्' कारस्य ‘ह्' कारे "सोलह" इति रूपं सिद्धम्। समन्वयः
संयुक्तः 'ड' कारः ‘ल्' कारे न परिवर्तते। यथा
उड्डीनः > उड्डीणो "कगचजतदपयवां प्रायो लोपः (प्रा. २.२) इत्यतः “प्राय" पदस्य अनुवृत्तित्वात् कतिचित्स्थाने 'ड्' इत्यस्य 'ल' कारः न, भवति। यथा
निबिडम् > णिविडं। "निविड़म्" इति स्थिते “नोणः सर्वत्र" (प्रा. २.४२) इत्यनेन सूत्रेण 'न्' कारस्य ‘ण्' कारे, “ड्" इत्यस्य 'ल' कारे अपरिवर्तितत्वात् "णिविड" इति जाते, “मोर्बिन्दुः” (प्रा. ४.१२) इत्यनेन सूत्रेण 'म्' . इत्यस्य बिन्दुत्वे "णिविडं" रूपं सिद्धम्। २४. ठो ढ़ः सुबोधिनी
अयुक्तस्याऽनादौ स्थितस्य ठस्य ढः स्यात्। कढिणो कठिनः। अयुक्तस्येति किम्? कण्ठो। अनादाविति किम्? ठक्कुरो॥२२॥ ... सञ्जीवनी
ठ इत्यक्षरं षष्ठ्यन्तम्। अयुक्तस्यानादौ स्थितस्य ठकारस्य ढकारादेशः स्यात्। पढिअं कढिणो पठितकठिनयोः। लुढिओ कमढो
लुठितकमठयोः। अयुक्तस्येति किम्? कण्ठो गिट्ठो। अनादाविति किम्? • ठक्कुरो ठआरो॥ २२॥