________________
अयुक्तविधिः
185 व्यापीडितमित्यादिषु। क्वचिन्नैव लः। लउडो णिविडो लगुडनिविडयोः। इत्यादिषु॥ २१॥ प्राकृतमञ्जरी
डकरास्य लकार स्याद् वेति वक्तव्यमत्र तु।
दाडिमी दालिमी पक्षे दाडिमी तद्वदिष्यताम्।। मनोरमा .
डकारस्यायुक्तस्यानादिभतस्य लकारो भवति। दालिमं। तला। वलही। प्रोयः इत्येवदाडिमं। बड़िसं। णिबिडं दाडिमः। तड़ागः। वलभी। बड़िशं। निबिडम्॥ अम्बिका
"अयुक्तस्यानादौ" (प्रा. २.१) इत्यतः “अयुक्तस्य" तथा "अनादौ" सूत्रस्य 'च' पदेन “स्फटिके लः” (प्रा. २.२२) इत्यतः ‘ल' एतानि - पदान्यनुवर्तन्ते। सूत्रार्थः
- संस्कृत शब्देषु अनादौ विद्यमाने असंयुक्त “ड्” कारस्य स्थाने . प्राकृते “ल्" कारादेशः भवति। यथा
दाडिमम् > दालिम “दाडिमम्” इति स्थिते “डस्य च” (प्रा. २.२३) इत्यनेन सूत्रेण 'ड्' कारस्य ‘ल्' कारे, “दालिमम्” इति जाते “मोर्बिन्दुः” (प्रा. ४.१२) इत्यनेन सूत्रेण 'म्' कारस्य बिन्दुत्वे (अनुस्वारे) “दालिमं" रूप सिद्धम्।
तड़ाकम् > तलाअं "तड़ाकम्” इति स्थिते “डस्य च" (प्रा. २.२३) इत्यनेन सूत्रेण 'ड्' कारस्य ‘ल्' कारे, “तलाकम्” इति स्थिते “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण "क्” कारस्य लोपे “तलाअ" इति स्थिते "मोर्बिन्दुः" (प्रा. ४.१२) इत्यनेन सूत्रेण “म्" कारस्य बिन्दुत्वे (अनुस्वारे, “तलाअं" इति रूपं सिद्धम्।