________________
184
प्राकृत व्याकरणम् मनोरमा
स्फटिक शब्दे ‘ट' कारस्य लकारो भवति। फलिहो। अम्बिका
"अयुक्तस्यानादौ" (प्रा. २.१) इत्यतः “अनादौ" तथा "टोडः" (प्रा. २.२०) इत्यतः "टः" पदद्वयमनुवर्तते। अम्बिका
संस्कृत “स्फटिक" शब्दस्यानादौ विद्यमाने "ट्" कारस्य स्थाने प्राकृते 'ल' कारः भवति।
स्फटिकः > फलिहो अस्य शब्दस्य प्रक्रियां द्वितीय परिच्छेदे "स्फटिकनिकषचिकुरेषु, कस्य हः” (प्रा. २.४) सूत्रप्रसङ्गे द्रष्टव्यम्।
२३. डस्य च
सुबोधिनी
डस्य च लः स्याद् अनादिस्थितस्यायुक्तस्य। तलाओ तडागः। अयुक्तस्येति किम्? उड्डीणो। अनादाविति किम्? डाइणी डाकिनी।
क्वचिद्वा डस्य लादेशः क्वचिद्वा नेष्यते बुधैः'। गुलो गुडो गुडः। दालिमं दाडिमं पीडिअं पीलिअं पीडितं। लउडो लगुडः। निविलो निविडः, इत्यादौ॥ २१॥ सञ्जीवनी
ल इत्यनुवर्तते। अयुक्तस्यानादौ स्थितस्य डस्य ल आदेशः स्यात्। तलाओ णिअलम् तडागनिगडयोः। कगचादिना गलोपः। सोलह षोडश। 'शषोः सः' इति षस्य सः। ‘दशादिषु हः' इति शस्य हः। ‘अन्त्यस्य हलः' इति नलोपः। 'जश्शसोर्लोपः' इति जसो लोपः। अयुक्तस्येति किम्? उड्डीणो मण्डवो उड्डीनमण्डपयोः। अनादाविति किम्? डाइणी डक्कारो डाकिनीडकारयोः। व्यवस्थितविभाषया क्वचिबा डस्य लादेशः। गुलो गुडो गुडः। दालिमं दाडिममेव। आपीलिअं आपीडिअं