________________
183
अयुक्तविधिः
सटा > सढा “सटा" इति स्थिते “सटाशकटकैटभेषु ढः” (प्रा. २.२१) इत्यनेन सूत्रेण 'ट्' कारस्य 'द' कारे “सढा” इति रूपं सिद्धम्।
शकटः > सअढो "शकट" इति स्थिते “शषोः सः” (प्रा. २.४३) इत्यनेन सूत्रेण "श्" कारस्य "स्" कारे “सकट" इति जाते “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'क्' कारस्य लोपे ‘सअट' इति स्थिते “सटाशकटकैटभेषु ढः” (प्रा. २.२१) इत्यनेन सूत्रेण 'ट्' कारस्य. 'द' कारे, “सअढ" इति प्राप्ते “अत ओत् सोः” (प्रा. ५. १) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य "ओत्वे", "सअढो" रूपं सिद्धम्।
कैटभः > केढवो "कैटभ" इति स्थिते “ऐत एत्" (प्रा. १.३५) इत्यनेन सूत्रेण आदि 'ऐ' कारस्य "ए" कारे “केटभ' इति स्थिते “सटाशकटकैटभेषु ढः" इत्यनेम सूत्रेण "ट्" कारस्य "ढ्' कारे “केटभ' इति स्थिते "कैटभे वः” (प्रा. २.२९) इत्यनेन सूत्रेण अनादि ‘भ्' कारस्य 'व्' कारे “केढव" इति स्थिते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य “ओत्वे", "केढवो" इति रूपं सिद्धम्। २२. स्फटिके लः सुबोधिनी
टस्य लः स्यात्। फलिहो।। २०॥ सञ्जीवनी
स्फटिकशब्दे टस्य लादेशो भवति। फलिहो स्फटिकः। स्फटिकादिना कस्य हः प्राकृतमञ्जरी
स्फटिके टस्य लस्तस्मात् स्फटिको फलिहो मतः।।२२।।