________________
182
यथा
प्राकृत व्याकरणम्
भट्टः > भट्टो
'ट्ट' कारः यथावत् स्थिते अत्र केवलम् " अत ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु” इत्यस्य "ओत्वे”, 'भट्टो' रूपं सिद्धम् ।
"
२२. सटाशकटकैटभेषु ढः
सुबोधिनी
एषु ढः स्यात् । डत्वापवादः । सढा सअढं केढवो ॥ १९ ॥ सञ्जीवनी
ट इत्यनुवर्तते उत्तरत्र च । एतेंषु टस्य ढकारः स्यात्। डत्वस्यापवादः। सढाओ सटाः । 'जसो वा' इति ओत्वम् । सअढं शकटम् । 'शषोः सः' इति शस्य सः। केढवो कैटभः । 'ऐत एत्' इति एत्त्वम्। 'कैटभे वः' इति भस्य वः। ' अत ओत् सोः, इति ओत्त्वम् ॥ १९ ॥ • प्राकृतमञ्जरी
टस्य ढत्वं सटायां स्याच्छकटे कैटभेऽपि च । सढा च सअढों चैवं तथा कइढवो मतः ॥ २१ ॥
मनोरमा
एतेषु "ट" कारस्य "ढ" कारो भवति । सढा । सअढो । केढवो । अम्बिका
""
अयुक्तस्यानादौ ” (प्रा. २.१) इत्यतः 'अनादौ' तथा 'टोड:” (प्रा. २.२०) इत्यतः ‘टः’ इति पदद्वयमनुवर्त्तते ।
सूत्रार्थः
“सटा”, “शकट” तथा “कैटभ" आदि संस्कृत शब्दानामनादौ विद्यमाने 'ट्' कारस्य स्थाने प्राकृते "ढ" कारादेशः भवति ।