________________
181
अयुक्तविधिः प्राकृतमञ्जरी
टकारस्य डकारः स्यात् सामान्येन पदे पदे।
खेटः खेडो कटुः कडू कूटः कूडो कटः कडो॥२०॥ मनोरमा ____टस्यानादिवर्तिनो ड कारो भवति। णडो। विड़वो॥ नटः। विटपः॥ अम्बिका
"अयुक्तस्यानादौ" (प्रा. २.१) इत्यतः अयुक्तस्य तथा "अनादौ" पदद्वयमनुवर्तते। सूत्रार्थः
संस्कृत शब्दानाम् अनादौ विद्यमाने असंयुक्त ‘ट्' कारस्य स्थाने प्राकृते “ड्' कारः भवति। यथा
नटः > णडो 'नटः' इति स्थिते "टोड़ः” (प्रा. २.२०) इत्यनेन सूत्रेण 'ट्' कारस्य ‘ड्' कारे, “नड" इति प्राप्ते “नोणः सर्वत्र” (प्रा. २.४२) इत्यनेन सूत्रेण 'न्' कारस्य 'ण' कारे, “णड" इति जाते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्ति एकवचने 'सु' इत्यस्य ‘ओत्वे', "णडो" इति रूपं सिद्धम्।
विटपः > विड़वो “विटपः” इति स्थिते “टोड़ः” (प्रा. २.२०) इत्यनेन सूत्रेण 'ट्' 'कारस्य ‘ड्' कारे, “विड़प' इति प्राप्ते “पो वः” (प्रा. २.२५) इत्यनेन 'सूत्रेण 'प्' कारस्य 'व्' कारे, “विड़व' इति जाते “अत ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्तिएकवचने सु इत्यस्य ओत्वे “विड़वो” रूपं सिद्धम्। समन्वयः
अन्यव्यञ्जनवर्णेन संयुक्त 'ट्' कारस्य ‘ड्' कारः न भवति।